Enter your Email Address to subscribe to our newsletters
भोपालम्, 14 जूनमासः ( हि.स.)। मध्यप्रदेशस्य पचमढ़ीनगरे शनिवासरात् आरभ्य भारतीयजनतापक्षस्य त्रिदिवसीयप्रशिक्षणशिबिरस्य कृते केन्द्रीयगृहसहकारमन्त्री अमितशाहः राज्यस्य राजधानी भोपालं प्राप्तवान्। यत्र मुख्यमन्त्री डॉ. मोहन यादवः राजा भोजविमानस्थानके स्वागतं कृतवान् । अस्मिन् विषये मुख्यमन्त्री X इत्यत्र लिखितवान् यत्, राजभोजनगरस्य भोपाले आगमनसमये संघगृहसहकारमन्त्री अमितशाहस्य हार्दिकं स्वागतं कृतम्। भवतः वासः अस्मान् लोकसेवायै सर्वदा नूतनां ऊर्जां ददाति।
भाजपा इत्यस्य अस्मिन् प्रशिक्षणशिबिरे सर्वे 201 सांसदाः अन्ये च विधायकप्रतिनिधिः भागं गृह्णन्ति। उक्तः शिबिरः राष्ट्रियस्तरस्य अस्ति, यस्मिन् त्रयः दिवसाः यावत् विभिन्नविषयेषु सत्रं भविष्यति। विभिन्न स त्राणां समये संगठनात्मकं स्तरे दलस्य राष्ट्रीयसंगठनं महासचिवः बीएलसंतोषः, राष्ट्रीय सह संगठनमहासचिवःशिवप्रकाशः, केंद्रीयमंत्री भूपेन्द्रयादवः, सीआरपाटिलः, शिवराजसिंहचौहानः, सावित्रीठाकुरः, एलमुरुगनः राष्ट्रीय महासचिवः विनोदतावडे , प्रदेश भाजपा प्रभारी डॉ महेन्द्रसिंहः विभिन्न सत्राणि संबोधयिष्यन्ति ।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani