मुख्यमंत्री विश्व रक्तदान दिवसे अकरोत् रक्तदानम्
गुवाहाटी, 14 जूनमासः (हि.स.)।विश्वरक्तदातृदिवसस्य अवसरः – मुख्यमंत्रिणा प्रदत्तं रक्तं, जनानां कृते प्रेरणापूर्णं आवाहनम् अद्य अस्मिन् विश्वरक्तदातृदिवसे, अस्माकं मुख्यमंत्रिणा स्वयमेव रक्तं दत्वा सामान्यजनानां प्रति अस्य महतोऽकार्यस्य कृते उत्साहपू
गुवाहाटीः विश्व रक्तदान दिवस पर रक्तदान करते मुख्यमंत्री डॉ. हिमंत बिस्व सरमा


गुवाहाटी, 14 जूनमासः (हि.स.)।विश्वरक्तदातृदिवसस्य अवसरः – मुख्यमंत्रिणा प्रदत्तं रक्तं, जनानां कृते प्रेरणापूर्णं आवाहनम्

अद्य अस्मिन् विश्वरक्तदातृदिवसे, अस्माकं मुख्यमंत्रिणा स्वयमेव रक्तं दत्वा सामान्यजनानां प्रति अस्य महतोऽकार्यस्य कृते उत्साहपूर्वकं भागग्रहणं करणीयमिति आवाहनं कृतम्।

मुख्यमंत्रिणा सामाजिकमाध्यमे एकं सन्देशं प्रकाशितम् यत्र सः उक्तवान् –रक्तदानं नाम महान् कार्यः, यः कश्चनस्य जीवने आशाकिरणं सृजितुं शक्नोति। रक्तदानं जीवनदानमिव। एषः निष्कामसेवारूपः कर्मणि स्वस्य सहभागिता लब्धुं यः अवसरः, सः सौभग्यरूपः अस्ति।

मुख्यमंत्रिणा एवमपि उktम् –अद्य 'विश्वरक्तदाता-दिवसे' एतस्मिन् पुण्यकर्मणि संलग्नान् सर्वान् जनान् हार्दं कृतज्ञतां दर्शयामि। आगच्छाम, अस्य विषयस्य विषये समाजे अधिकं जागरूकतां प्रसारयाम।तेन एषा अपि वाणी उक्ता –रक्तस्य एकः बिन्दुः अपि कस्यचित् जीवने आशारूपां दीप्तिं जनयितुं शक्नोति। अस्मिन् विश्वरक्तदानदिवसे, अहं सर्वान् जनान् रक्तदानस्य कृते प्रोत्साहयामि, येन असंख्येषु मुखेषु जीवनसुखस्य हर्षः प्रसारितुं शक्यते।

हिन्दुस्थान समाचार