Enter your Email Address to subscribe to our newsletters
-मुख्यमंत्रिणः प्रधान सचिवः डॉ सिद्धार्थोऽपि अकरोद् आरंभम्
नवादा,14 जूनमासः (हि.स.)।
नवादा जनपदस्य हिसुआ थाना क्षेत्रे चितरघटीपञ्चायति लटावरमानीबागीग्रामे निवसन्तः महादलितपरिवारस्य सदस्याः गतसप्ताहे गया जनपदस्य अतरी थाना क्षेत्रे कुजूरग्रामे विवाहसमारोहम् अगच्छन्। शनिवासरे ते विवाहमहोत्सवे भागं गृहीत्वा प्रत्यागच्छन्तः सन्, गया जनपदस्य सीमायां वाहनं दुर्घटनाग्रस्तं जातम्। अस्मिन दुर्घटनायां बारातिगणैः पूर्णे वाहनस्य दुर्घटनेन चतुश्चत्वारिंशत् (४३) जनाः आहताः अभवन्।
आहतानां मध्ये प्रमुखतया मांगोदेवी (पत्नि - बूंदी मांझी), मंतीदेवी (पत्नि - गनौरी मांझी), रीता देवी (पत्नि - शिवन मांझी), प्रभा देवी (पत्नि - धनु मांझी), दिवाकर कुमार (पुत्रः - दिलीप मांझी), हसीना कुमारी (पुत्री - दिलीप मांझी), सहोदरी देवी (पत्नि - रामशरण मांझी), मालो देवी (पत्नि - संतोष मांझी) इत्यादयः सम्यक् चिकित्सायै संदर्शिताः अभवन्। किन्तु बहवः जनाः आर्थिकाभावात् चिकित्सां विना गृहं प्रत्यावृत्ताः।
एवं दुःखदवृत्तान्तस्य जानकारीं प्राप्य मुख्यमन्त्रिणः प्रधानसचिवः वरिष्ठ-IAS अधिकारी डॉ॰ एस सिद्धार्थः तत्क्षणमेव सक्रियः अभवत्। तेन दत्तनिर्देशानुसार मॉडर्न शैक्षणिकसमूहस्य सचिवः डॉ॰ शैलेशकुमारः, नवादा जनपदस्य प्रशासनं च मिलित्वा महादलितपरिवारेभ्यः आवश्यकं स्वास्थ्यसेवनं समुपलब्धं कृतम्।
अनेकाः रुग्णवाहिन्यः ग्रामं प्रति प्रेषिताः। ये गभीररूपेण आहताः अभवन्, ते अस्पतालं नीताः। अन्येषां उपचारः ग्रामे एव सम्पन्नः। औषधवितरणं च सम्यक् प्रकारेण विधाय तेषां प्राणरक्षा कृता। हिसुआ इत्यस्य BDO अपि घटनास्थलं प्राप्तवन्, च स्थितेः निरीक्षणं कृतवन्तः।
एषः मानवहिताय कृतः प्रयासः – अस्मिन कार्ये जनता दल (यूनाइटेड) दलस्य नेता गुड्डूकुमारसिंहः, भदसेनीग्रामवासी मनोजसिंहः, मुखियाः विलासमांझी, पुरुषोत्तमसिंहः, वार्डसदस्यः विजयराजवंशी च प्रशंसनीयं सहयोगं कृतवन्तः।
---------------
हिन्दुस्थान समाचार