Enter your Email Address to subscribe to our newsletters
दक्षिण सालमारा (असमः), 14 जूनमासः (हि.स.)।
शनिवासरे सम्पूर्णे असम-राज्ये राष्ट्रिय-लोक-न्यायालयः आयोज्यते। अन्येषां जनपदानां सदृशम् दक्षिणसालमारा–मानकाचर जनपदे अपि एषा लोकन्यायालयः आयोज्यते।
जनपद-विधिसेवा-प्राधिकरणस्य तत्वावधानमध्ये वर्षस्य द्वितीयं राष्ट्रीय-लोक-अदालत् आयोजयितुं शुक्रवासरे एव सर्वाः सज्जाः पूर्णाः कृताः।
प्राप्तसूचनानुसारं – फेकामारी स्थाने स्थिते जनपद-सत्र-न्यायालय-परिसरे आयोज्यमानायाम् अस्याम् लोक-न्यायालये सर्वप्रकाराः लघु-अपराध-मामलाः, अन्ये दीवानी-विवादाः, मोटर-यान-अधिनियम-संबद्धाः विवादाः, पारिवारिकविवादाः, दण्ड प्रक्रिया संहिता धारा १२५ अनुसारं प्रकरणानि, गृहगतहिंसा इत्येतादृशानि च प्रकरणानि, तथा एनआई अधिनियम सम्बन्धितमामलानि — आपसी-सहमत्येन समाधानं प्राप्तं करिष्यन्ति।
अस्मिन् सन्दर्भे जनपद-विधिक-सेवा-प्राधिकरणस्य सचिवः श्री जयन्तकुमार-सैकियाभिधानः अपीलं कृतवान् यत् — ये जना एतेषु विवादेषु सम्मिलिता: सन्ति, ते अद्य आयोजितायाम् लोक-अदालत्याम् उपस्थित्य स्वविवादानां समाधानं कृत्वा लाभं प्राप्नुयुः।
उल्लेखनीयं यत् — देशव्याप्यं वर्षस्य द्वितीया लोक-अदालत् पूर्वनिश्चित-तिथौ १० मे तमे दिनाङ्के आयोजनीया आसीत्, किन्तु अस्मिन् राज्ये पंचायत-निर्वाचनम् अभवत्, अतः अस्याः तिथिः परिवर्त्य १४ जून दिनाङ्के आयोजने निश्चितं कृतम्।
हिन्दुस्थान समाचार