पाकिस्ताने किमर्थं रिलीज न जातं चलचित्रं 'दंगल'- नवर्षोत्तरमामिरखानोऽकरोत् रहस्योद्घाटनम्
बॉलीवुडस्य ''द परफेक्शनिस्ट्'' इत्यभिहितः अभिनेता आमिर् खानस्य अत्यधिकं लोकप्रियं चलचित्रं ‘दंगल्’ इति अस्ति। एतत् चलचित्रं २०१६ तमे वर्षे विमोचितम् आसीत्। ‘दंगल्’ इत्येतत् चलचित्रं अद्यावधि सर्वाधिकं लक्ष्मीम् उपार्जितवत्, यत् विश्वस्य विभिन्नेष
दंगल


बॉलीवुडस्य 'द परफेक्शनिस्ट्' इत्यभिहितः अभिनेता आमिर् खानस्य अत्यधिकं लोकप्रियं चलचित्रं ‘दंगल्’ इति अस्ति। एतत् चलचित्रं २०१६ तमे वर्षे विमोचितम् आसीत्। ‘दंगल्’ इत्येतत् चलचित्रं अद्यावधि सर्वाधिकं लक्ष्मीम् उपार्जितवत्, यत् विश्वस्य विभिन्नेषु स्थलेषु प्रेक्षागृहेषु २००० कोटि रूप्यकाणि अधिकानि च प्राप्तवती। एतत् चलचित्रं २३ दिसम्बर् २०१६ तम्यां तिथौ सर्वत्र विश्वे विमोचितम् आसीत्, परन्तु पाकिस्तान्-देशे न विमोचितम्। इदानीं स्वयमेव आमिर् खान उक्तिं कृतवान् यत् कुतः ‘दंगल्’ चलचित्रं तत्र न प्रदर्शितम् इति।

सः शीघ्रमेव स्वस्य नूतनचलचित्रस्य ‘सितारे ज़मीन पर’ इत्यस्य माध्यमेन पुनः प्रेक्षकेभ्यः समक्षं आगच्छति। एतस्य प्रचारार्थं सः विभिन्नेषु स्थलेषु संवाददाने नियोजितः अस्ति। तत्रैव एकस्मिन् कार्यक्रमे सः उक्तवान् यत् ‘दंगल्’ इति चलचित्रं पाकिस्तान्-देशे कुतः न प्रदर्शितम् इति कारणम्।

आमिर् खानः उक्तवान् यत् पाकिस्तानस्य सेंसर्-बोर्ड् तस्मात् याचितवान् यत् चलचित्रस्य अन्त्यभागे दृश्यं यत्र गीता फोगट् प्रतियोगितां विजित्य राष्ट्रध्वजं (तिरङ्गम्) च राष्ट्रगीतम् च प्रदर्श्यते, तत्तत् दृश्यं तस्मात् अपाकर्तव्यम्। तदा ‘दंगल्’ चलचित्रस्य निर्माणकर्तृभ्यः डिज्नी इत्यपि एकः आसीत्।

एवं याचना श्रुत्वा आमिर् खान त्वरितं डिज्नी-संस्थायै उक्तवान् – यदि ते राष्ट्रध्वजं च राष्ट्रगीतम् च अपाकर्तुं याचन्ते, तर्हि मम चलचित्रं तेषां राष्ट्रे न प्रदर्श्यते। तदा केचन उक्तवन्तः यत् अनेन निर्णयेन वित्तनष्टः भविष्यति, लाभे अपि प्रभावः स्यात्। तदा आमिर् खान प्रत्युत्तरं दत्तवान् – “यः कश्चन जनः यः मां राष्ट्रध्वजं अपाकर्तुं याचति, राष्ट्रगीतं च अपहर्तुं इच्छति, तं अहं स्वीकर्तुं न इच्छामि। मम स्वाभिमानात् न्यूनः व्यवसायः मम न आवश्यकः।

एतेषु घटनासु मध्ये आमिर् खान स्वस्य नवीनचलित्रेण ‘सितारे ज़मीन पर’ इत्यनेन चर्चायाम् अस्ति। अस्मिन् चलचित्रे आमिर् खान सह जेनेलिया देशमुख इत्यपि प्रमुखपात्रेण दृश्यते। एतेषां द्वयोः अतिरिक्तं आरुष् दत्तः, गोपीकृष्णवर्मा, संवित् देसाई, वेदान्तः शर्मा, आयुष् भानुशाली, आशीष् पेंडसे इत्यादयः नूतनकलाकाराः अपि दृश्यन्ते।

हिन्दुस्थान समाचार