Enter your Email Address to subscribe to our newsletters
नाहनम्, 14 जूनमासः (हि.स.)।हिमाचलप्रदेशस्य सिरमौरजनपदस्य पच्छादुपमण्डले बरीवडीग्रामनिवासी सुरेन्द्रप्रकाशशर्मा स्वस्य स्वरोजगारस्य माध्यमेन स्वावलम्बनस्य आदर्शः जातः। आत्मविश्वासेन, परिश्रमेण, दूरदर्शितया च सः न केवलं आत्मनं स्वावलम्बिनं कृतवान्, अपितु अन्ययुवकानां कृते अपि प्रेरणास्रोतः अभवत्।
सुरेन्द्रशर्मणः पारम्परिकः कृषिः एव पारिवारिकव्यवसायः आसीत्। पच्छादक्षेत्रस्य अनुकूलवातावरणे सः नगदीयपक्षे च पारम्परिकपक्षे च कृषिं कुर्वन् आसीत्। कृषिकार्ये तु तेन जलसिंचनस्य, अनियमितवर्षायाः, तथा वन्यजन्तुभ्यः रक्षणस्य च अनेकाः बाधाः अनुभूताः।
एवमेव तस्य मनसि कश्चन विचारः उत्पन्नः – दृढपरिश्रमेण न, अपितु सूक्ष्मबुद्ध्या कार्यं करणीयम्। इत्यस्य भावेन। यदा तेन ज्ञातं यत् हिमाचलसरकारं युवानां स्वरोजगाराय विविधाः योजनाः संचालयति, तदा सः स्वविचाराय उचितां दिशां दत्तवान्।
सुरेन्द्रशर्मा २०२२-२३ तमे वर्षे नाहनस्थितजिलाउद्योगकेन्द्रात् पञ्चनवतिलक्षरूप्यकाणां ऋणं प्राप्तवान्। अस्य परियोजनायाम् तेन चतुर्विंशतिलक्षरूप्यकाणां अनुदानं, पञ्चप्रतिशतकं ब्याजोपदानं च प्राप्तम्। अनेन पूंजीना सः सिरमौर-सोलनजनपदयोः सीमायाम् मरयोगनिकटे ‘संगम अम्यूजमेंट् पार्क’ इत्यस्य रिसॉर्ट् (विश्रामगृहस्य) स्थापना कृतवान्।
अस्य रिसॉर्टे अधुनातनसुव्यवस्था अस्ति – षट् कॉटेज् गृहाणि, एकं भोजनालयं, एकं तर्जनकूपः (स्विमिंग पूल्), पंचदशकं शिबिरतन्तूनि (कैंपिंग टेन्ट्) च। अत्र एकस्य कॉटेज्गृहस्य प्रतिदिनं शुल्कं २००० रूप्यकाणि, एकस्य टेन्टस्य ५०० रूप्यकाणि, स्विमिंग पूलस्य एकस्मिन् घण्टे १०० रूप्यकाणि इत्येवं निर्धारितम्।
वर्षे २०२४ तमे सुरेन्द्रशर्मणः पञ्चविंशतिलक्षरूप्यकाणां कुलआयः जातः, यस्मात् च विंशतिलक्षरूप्यकाणि शुद्धलाभरूपेण प्राप्तानि। वर्तमानकाले सः अन्यपञ्चजनान् अपि रोजगाररूपेण नियुक्तवान् अस्ति।
‘संगम अम्यूजमेंट् पार्क’ न केवलं सामान्यपर्यटकानां आकर्षणकेन्द्रं जातम्, अपितु डॉ॰ यशवंतसिंहपरमारबागवानी-वानिकीविश्वविद्यालय-नौणी, शूलिनीविश्वविद्यालयः, एल्.आर्.कॉलेजः, सोलननगरस्थयुवानां च सप्ताहान्तविहारस्थानरूपेण प्रसिद्धं जातम्।
अत्र जन्मदिवस, वार्षिकोत्सवः, सेवा-निवृत्तिसमारोहः च अपि आयोज्यन्ते, येन सुरेन्द्रशर्मणः कीर्तिः च आयः च उन्नतिं गच्छतः। राजगढ्-निवासी हितेशः कथयति – अत्रस्थं वातावरणं अत्यन्तं शान्तिकरं हि मनःप्रसाददायकं च अस्ति। वयं मित्रैः सह इह आगत्य समयं यापयामः।
हिन्दुस्थान समाचार