शान्ति सरोवरे अद्यारभ्य सप्त दिवसीय योग महोत्सवः
रायपुरम् 15 जूनमासः (हि.स.)।अन्ताराष्ट्रिय-योग-दिवसस्य अवसरः – प्रजापिता-ब्रह्माकुमारी-ईश्वरीय-विश्वविद्यालयेन “योग-महोत्सवः” आयोज्यते। अन्ताराष्ट्रिययोगदिवसस्य निमित्तेन प्रजापिता ब्रह्माकुमारी ईश्वरीय विश्वविद्यालयेन अद्य (रविवासरे) दिनाङ्के 15 ज
शान्ति सरोवरे अद्यारभ्य सप्त दिवसीय योग महोत्सवः


रायपुरम् 15 जूनमासः (हि.स.)।अन्ताराष्ट्रिय-योग-दिवसस्य अवसरः – प्रजापिता-ब्रह्माकुमारी-ईश्वरीय-विश्वविद्यालयेन “योग-महोत्सवः” आयोज्यते।

अन्ताराष्ट्रिययोगदिवसस्य निमित्तेन प्रजापिता ब्रह्माकुमारी ईश्वरीय विश्वविद्यालयेन अद्य (रविवासरे) दिनाङ्के 15 जूनतः 21 जूनपर्यन्तं विधानसभा-मार्गे स्थिते शान्तिसरोवरे “योगमहोत्सवः” आयोज्यते। अस्य महोत्सवस्य विषयवस्तु अस्ति — “एकं पृथिव्याः कृते एकं च स्वास्थ्यं कृते योगः”।

विशिष्टाः अतिथयः तत्र अस्मिन महोत्सवे निम्नलिखिताः प्रमुखाः अतिथयः उपस्थिताः भविष्यन्ति युवा तथा क्रीडामन्त्री टंकराम वर्मा, योग-आयोगस्य अध्यक्षः रूपनारायण सिन्हा, महानिदेशकः पुलिसविभागस्य अरुणदेव गौतमः,पं. रविशंकर शुक्लविश्वविद्यालयस्य कुलपति प्रो. सच्चिदानन्दः शुक्लः।राजयोगस्य वैश्विक-सामूहिकाभ्यासः – 39 वर्षोंपर्यन्तम् परम्परा

विशेषरूपेण ज्ञेयम् यत् प्रजापिता-ब्रह्माकुमारी-संस्थया गत-एकोनचत्वारिंशद्वर्षाणि यावत् मासस्य तृतीयरविवासरे समग्रे विश्वे 140 राष्ट्रेषु एकस्मिन्नेव समये संयुक्तः योगाभ्यासः क्रियते। एषः योगः संध्यासमये सायं 6:30 वादने सम्पद्यते, यत्र सर्वे ब्रह्माकुमाराः ब्रह्माकुमार्यश्च राजयोगाभ्यासद्वारा समग्रे विश्वे शान्तेः कम्पनान् प्रसारयन्ति।

राजयोग-शिविरं – 22 जूनारभ्य निःशुल्कः प्रशिक्षणक्रमः।

राजयोगं अध्येतुं इच्छुकानां कृते प्रजापिता-ब्रह्माकुमारी-संस्थया २२ जूनतः सप्तदिनपर्यन्तं विधानसभा-मार्गस्थिते शान्तिसरोवरे तथा चौबे-कालोनी-स्थिते सेवाकेन्द्रे निःशुल्कं राजयोग-अनुभूति-शिविरं आयोज्यते।

प्रत्यहं द्वौ सत्रौ भविष्यतः—प्रातः 7:00 — 8:00, सायं 7:00 — 8:00

जनाः स्वसुविधानुसारं कस्यचित् एकसत्रस्य चयनं कृत्वा लाभं प्राप्नुयुः।

---------------

हिन्दुस्थान समाचार