Enter your Email Address to subscribe to our newsletters
जम्मू, १७ जूनमासः (हि.स.)। श्री कैलखज्योतिष-वैदिकसंस्थानन्यासस्य अध्यक्षः, राज्यपुरस्कारप्राप्तः महन्तः रोहितशास्त्री श्रीनगरजिल्लायाः उपायुक्तं श्रीमान् अक्षयलाबरू महोदयम् प्रति शिष्टाचारमेलनं कृतवन्तः। एतस्मिन् सन्दर्भे महन्तेन जम्मू-कश्मीरराज्यस्य यशस्विन उपराज्यपालः माननीयः श्री मनोजसिन्हा इत्यस्य अभिनन्दनार्थं प्रकाशितं विशेषं अभिनन्दनग्रन्थं उपायुक्तमहोदयाय सप्रेमं समर्पितम्।
मेलनस्य समये महन्तः शास्त्रिणा न्यासेन प्रदेशे देववाणीसंस्कृतभाषायाः संरक्षणं, संवर्धनं, पुनरुत्थानं च विषयके प्रयासाः विस्तारतः प्रकाशिताः। ते अवदन् यत् — न्यासस्य मुख्यलक्ष्यम् अस्ति युवा पीढिं स्वसंस्कृतिकमूलैः सह सम्बद्धं कर्तुम्।
हिन्दुस्थान समाचार