चम्पावते २२ जूनदिनाङ्के भविष्यति बृहद्विशालः स्वच्छता-अभियानः।
चम्पावतम्, १७ जूनमासः (हि.स): जनपदविधिकसेवाप्राधिकरणेन आगामिनि २२ जून दिनाङ्के जनपदमुख्यालयेन सह सर्वासु तहसीषु बृहत् स्वच्छता-अभियानः आयोज्यते। अस्य महत्त्वपूर्णस्य आयोजनस्य सफलतायै लक्ष्यार्थं एकं महत्वपूर्णं सभा सोमवासरे जनपदन्यायालयस्य सभागारे स
स्वच्छता अभियान तैयारी बैठक


चम्पावतम्, १७ जूनमासः (हि.स):

जनपदविधिकसेवाप्राधिकरणेन आगामिनि २२ जून दिनाङ्के जनपदमुख्यालयेन सह सर्वासु तहसीषु बृहत् स्वच्छता-अभियानः आयोज्यते। अस्य महत्त्वपूर्णस्य आयोजनस्य सफलतायै लक्ष्यार्थं एकं महत्वपूर्णं सभा सोमवासरे जनपदन्यायालयस्य सभागारे सम्पन्ना, यस्य अध्यक्षता जनपदन्यायाधीशः जनपदविधिकसेवाप्राधिकरणस्य अध्यक्षः श्री अनुजकुमारसंगल् महोदयेन कृतम्।

सभायां नगरनिगमस्य/पालिकायाः, स्वास्थ्यविभागस्य, शिक्षाविभागस्य, आरक्षकविभागस्य, सूचना-विभागस्य च अन्येषां सम्बद्धविभागानां प्रतिनिधयः भागं स्वीकृतवन्तः। सभायां उद्घोषितं यत्—माननीयस्य उच्चन्यायालयस्य निर्देशानुसारं अयं स्वच्छता-अभियानः जनजागरूकतायाः च विभागीय-सहकारस्य च भावनया सह सञ्चालितः भविष्यति।

जनपदन्यायाधीशः संगल्महोदयेन उक्तं यत्—स्वच्छता-अभियानः केवलं अपशिष्टस्य निष्कासनं न, अपितु जनजागरूकतायाः सामुदायिक-सहभागितायाश्च संवर्धनाय सशक्तं माध्यमं अस्ति। तेन सर्वेषां विभागानां समन्वयेन अभियानस्य प्रभाविकरणं प्रति आह्वानं कृतम्।

सभायां निर्णयं कृतं यत् जनपदे मुख्यालयेन सहितं चत्वारि पृथग् - पृथग् दलानि सृज्यन्ते, यत्र क्षेत्रविशेषानां 'पैरा-लीगल् वॉलण्टियर्स्'(PLVs) सम्मिलिष्यन्ति। नगरनिगमेन/पालिकया स्वच्छता-साधनानि, वाहनानि जनशक्तिं च सुनिश्चितं करिष्यते। स्वास्थ्य-विभागेन प्राथमिक-चिकित्सा-सेवायुक्तानि दलानि नियोज्यन्ते। शिक्षाविभागेन विद्यालयीय-छात्र-छात्रा: शिक्षकाश्च स्वच्छता-जागरूकता-अभियाने सक्रियं सहभागं करिष्यन्ति।

सभायां सिविल्-जज् (एस.डी.) च प्रभारीजनपद-विधिक-सेवा-

प्राधिकरण-चम्पावत् रश्मि-गोयल्, मुख्य-न्यायिक-मजिस्ट्रेट् चम्पावत् निहारिका-मित्तल्-गुप्ता, जनपद-संघस्य अध्यक्षः रामसिंह-बिष्टः, उप-जनपदाधिकारी अनुराग-आर्यः, अधिशासी-अधिकारी नगरपालिका भरत-त्रिपाठी, अपर-मुख्य-चिकित्सा-अधिकारी डॉ. इन्द्रजीत-पाण्डे, सीटी-प्रबन्धकः महेशचौहानश्च अन्ये सम्बद्धाधिकारी आभासिकी-माध्यमेन उपस्थिताः आसन्।

हिन्दुस्थान समाचार / ANSHU GUPTA