बरचुक गैस निर्गमनम् - मुख्यमंत्री केंद्रीय मंत्रिणे अभ्यर्थिता हस्तक्षेपस्य याचना
गुवाहाटी, 18 जूनमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमेन बरचुक-गैस्-विस्फोटस्य (Gas Blowout) गम्भीरतां दृष्ट्वा बुधवासरे भारतसर्वकारस्य पेट्रोलियममन्त्रिणं हरदीप्सिंहपुरीं प्रति पत्रं लिखित्वा अस्य विषयस्य विषये चिन्ता प्रकटिता।मुख्
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा केंद्रीय पेट्रोलियम एवं प्राकृतिक गैस मंत्री हरदीप सिंह पुरी को लिखे गए पत्र की प्रति।


गुवाहाटी, 18 जूनमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमेन बरचुक-गैस्-विस्फोटस्य (Gas Blowout) गम्भीरतां दृष्ट्वा बुधवासरे भारतसर्वकारस्य पेट्रोलियममन्त्रिणं हरदीप्सिंहपुरीं प्रति पत्रं लिखित्वा अस्य विषयस्य विषये चिन्ता प्रकटिता।मुख्यमन्त्री पुरीमन्त्रिणं प्रति निवेदनं कृतवान् यत्—ओएनजीसी लिमिटेड् (ONGC Ltd.) नाम संस्था 'मिशन मोड्' इत्याख्यायां त्वरितरीत्या वेल्-कण्ट्रोल् (Well Control) प्रयत्नान् कर्तुं निर्देशः दातव्यः, यथास्थितिः अधिकं न विक्षुब्धा भवेत्।डॉ. सरमेन उक्तं यत्—राज्यसर्वकारः पीडितजनान् प्रति यथाशक्ति राहत्सेवान् प्रदानं कुर्वन् अस्ति, परन्तु परिस्थितीनां सामान्यीकरणं कर्तुं संकटशमनाय च ओएनजीसी संस्था अधिकं सक्रियं कार्यं करणीयम्।उल्लेखनीयं यत्—बरचुक् इत्यत्र अद्यतनकाले घटिते गैस्-विस्फोटेण शतशः परिवाराः प्रभाविताः अभवन्। एतेषां सहायतायै शीघ्रं कार्यमवश्यकं इति बोध्यते। मङ्गलवासरे राज्यसर्वकारेण मुख्यमन्त्रीराहतकोषात् पीडितपरिवारेभ्यः प्रतेकस्मै २५-२५ सहस्ररूप्यकाणां तात्कालिकसाहाय्यस्य घोषणाऽपि कृता।

हिन्दुस्थान समाचार