Enter your Email Address to subscribe to our newsletters
रायपुरम् 17 जूनमासः (हि.स.)। छत्तीसगढसर्वकारस्य राज्यमन्त्रिपरिषदः (मन्त्रिमण्डलस्य) सभा अद्य बुधवासरे भविष्यति। इयं सभा प्रातः १०:०० वादने मुख्यमन्त्री निवासकार्यालये सिविल लाइन्स् रायपुरे मुख्यमन्त्री विष्णुदेवसायस्य अध्यक्षतायां भविष्यति। आगामिनि बजटसत्रे, विद्यमानप्रशासनिकनीतिषु, योजनानां प्रगतेः, नवीनघोषणानां च सन्दर्भे एषा मन्त्रिमण्डलसभा अतीव महत्त्वपूर्णा इति मन्यते।
हिन्दुस्थान समाचार / Dheeraj Maithani