मुख्यमंत्रिणा डॉ. यादवेन के.एस. सुदर्शनः जयंती अथ च 'फ्लाइंग सिख' मिल्खा सिंहश्च पुण्यतिथौ  संस्मृतौ
भाेपालम् , 18 जूनमासः (हि.स.)। अद्य बुधवासरे एथलेटिक्स् क्रीड़ायां भारतस्य ध्वजं समुन्नतं कृतवन्तः धावकवीरः मिल्खासिंहः इत्यस्य पुण्यतिथिः अस्ति। तस्मिन्नेव दिने राष्ट्रियस्वयंसेवकसंघस्य पूर्वः सरसंघचालकः कुप्पहाली सीतारमैया सुदर्शनः (के.एस्. सुदर्श
मुख्यमंत्री डाॅ यादव ने 'फ्लाइंग सिख' मिल्खा सिंह काे पुण्यतिथि  पर किया याद


मुख्यमंत्री डाॅ यादव ने के.एस. सुदर्शन काे जयंती पर किया याद


भाेपालम् , 18 जूनमासः (हि.स.)।

अद्य बुधवासरे एथलेटिक्स् क्रीड़ायां भारतस्य ध्वजं समुन्नतं कृतवन्तः धावकवीरः मिल्खासिंहः इत्यस्य पुण्यतिथिः अस्ति। तस्मिन्नेव दिने राष्ट्रियस्वयंसेवकसंघस्य पूर्वः सरसंघचालकः कुप्पहाली सीतारमैया सुदर्शनः (के.एस्. सुदर्शनः) इत्यस्य अपि जयन्ती समुपस्थितम्।

एतयोः द्वयोः महापुरुषयोः पुण्यस्मरणं कृत्वा मुख्यमन्त्री डॉ. मोहन यादवः विनम्रं नमनं कृतवान्।

मुख्यमन्त्रिणा डॉ. यादवेन सोशल् मीडियायाः एक्स् इत्यस्मिन् माध्यमे मिल्खासिंहमहाशयम् प्रति श्रद्धाञ्जलिः समर्प्य एवमुक्तम्–

पद्मश्रीसम्मानितः ‘फ्लाइङ् सिख्’ इत्युपाधियुक्तः मिल्खासिंहः इत्यस्य पुण्यतिथौ विनम्रां श्रद्धाञ्जलिं समर्पयामि। महानस्य एथलीटनः जीवनयात्रा युवानां कृते आदर्शप्रेरणा अस्ति। तेन दर्शितं यत्, सफलता नाम केवलं संघर्षेण, अनुशासनेन, दृढसंकल्पेन च प्राप्तुं शक्यते।

अन्यस्मिन् सन्देशे के.एस्. सुदर्शनमहाभागस्य जयन्तिं स्मृत्वा मुख्यमंत्री डॉ. यादवः एवमुक्तवान्–

मातृभूमेः कृते स्वजीवनं समर्पितवन्तः राष्ट्रीयस्वयंसेवकसंघस्य पञ्चमः सरसंघचालकः श्रद्धेयः के.एस्. सुदर्शनः – तस्य जयन्त्याः अवसरं स्मृत्वा सादरं नमनं कुर्वे। भवतः तीव्रविचाराः, राष्ट्रचिन्तनं, कर्मशीलता च – राष्ट्रनवनिर्माणस्य पथप्रदर्शकत्वेन नित्यं स्थास्यन्ति। स्वदेशीभावनायाः संवाहकः सन्, समग्रराष्ट्रे जनचेतनाम् आवहन्, सहस्रशः स्वयंसेवकेषु राष्ट्रसेवायाः संस्कारान् आरोप्य च, भवतः योगदानं राष्ट्रं सदा कृतज्ञतया स्मरिष्यति।

---------------

हिन्दुस्थान समाचार