रानीलक्ष्मीबाई इत्यस्यै मुख्यमन्त्री सुखविंदरसिंहसुक्खू श्रद्धांजलिं दत्तवान्
शिमला, 18 जूनमासः (हि.स.)। मुख्यमन्त्री ठाकुर सुखविन्दरसिंह सुखुः १८५७ तमे वर्षे प्रथमस्वातन्त्र्ययुद्धस्य महान् योद्धा रानीलक्ष्मीबाई इत्यस्याः बलिद्दानदिने श्रद्धांजलिम् अर्पयन् महिलाशक्तिः, साहसस्य, देशभक्तेः च अमिटप्रतीकम् इति उक्तवान् । रानीलक्ष
रानीलक्ष्मीबाई इत्यस्यै मुख्यमन्त्री सुखविंदरसिंहसुक्खू श्रद्धांजलिं दत्तवान्


शिमला, 18 जूनमासः (हि.स.)। मुख्यमन्त्री ठाकुर सुखविन्दरसिंह सुखुः १८५७ तमे वर्षे प्रथमस्वातन्त्र्ययुद्धस्य महान् योद्धा रानीलक्ष्मीबाई इत्यस्याः बलिद्दानदिने श्रद्धांजलिम् अर्पयन् महिलाशक्तिः, साहसस्य, देशभक्तेः च अमिटप्रतीकम् इति उक्तवान् । रानीलक्ष्मीबाई स्वस्य अद्भुतशौर्येन, वीरतायाः च सह भारतीय-इतिहासस्य अमरस्थानं कृतवती अस्ति ।

मुख्यमन्त्री उक्तवान् यत् १८५७ तमे वर्षे क्रान्तिकाले रानीलक्ष्मीबाई अग्रपङ्क्तौ एव तिष्ठति स्म, आङ्ग्लशासनविरुद्धं जनान् जागरूकं कृत्वा मातृभूमिरक्षणे स्वप्राणान् बलिदानं कृतवती। तस्याः जीवनम् अद्यापि युवानां कृते प्रेरणास्रोतः अस्ति । सः अपि अवदत् यत् रानीलक्ष्मीबाई इत्यस्याः समर्पणं त्यागं च युगपर्यन्तं स्मर्यते। एतादृशानां वीराणां योद्धानां त्यागं, संघर्षं च अस्माभिः सर्वदा नमस्कारः कर्तव्यः।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA