अमेरिका अथ च ईयू सममेव शीघ्रमेव व्यापारसहमति संपन्नायाः अनुमानम् -वित्त मंत्री
नवदिल्ली, 24 जूनमासः (हि.स)।केंद्रीय-वित्तमन्त्री निर्मलासीतारमण महोदया मङ्गलवासरे उक्तवती यत् अमेरिका-यूरोपसङ्घयोः सह प्रस्तावितं मुक्तव्यापार-सन्धिं विषये वार्तालापः शीघ्रतया अग्रे सन्चरति, शीघ्रं एव तस्याः रूपरेखा अन्तिमरूपेण निर्धास्यते। सा रा
एक्जिम बैंक ट्रेड कॉन्क्लेव को संबोधित करते हुए वित्‍त मंत्री सीतामरण


एक्जिम बैंक ट्रेड कॉन्क्लेव को संबोधित करते हुए वित्‍त मंत्री सीतामरण


नवदिल्ली, 24 जूनमासः (हि.स)।केंद्रीय-वित्तमन्त्री निर्मलासीतारमण महोदया मङ्गलवासरे उक्तवती यत् अमेरिका-यूरोपसङ्घयोः सह प्रस्तावितं मुक्तव्यापार-सन्धिं विषये वार्तालापः शीघ्रतया अग्रे सन्चरति, शीघ्रं एव तस्याः रूपरेखा अन्तिमरूपेण निर्धास्यते।

सा राजधानी-नवदिल्लीस्थे एक्जिम् बाङ्क्-ट्रेड्-कॉन्क्लेव् २०२५ कार्यक्रमे “विकसितभारताय निर्यातोन्मुखविकासः” इत्यस्मिन् विषयि आयोजिते सम्मेलनम् संबोधितवती।

तया उक्तं यत् भारतदेशेन संयुक्त-अरब-अमीरात्, ऑस्ट्रेलिया, चतुर्णां राष्ट्राणां यूरोपीय-मुक्तव्यापार-सङ्घस्य खण्डेन च सह मुक्तव्यापार-सन्धयः पूर्वमेव सम्पन्नाः सन्ति, ब्रिटेन-राष्ट्रेण सह वार्ता अपि पूर्णा जाताऽस्ति।

इंडिया-एक्जिम्-बाङ्क्-व्यापार-सम्मेलनम् संबोधितवत्याः वित्तमन्त्रिण्याः वचने अनुसारम् अधुना अधिकेषु मुक्तव्यापार-सन्धिषु ध्यानं दत्तम् अस्ति।

सीतारमण-महोदया अवदत्—

“अमेरिका-यूरोपसङ्घयोः सह वार्ता वस्तुतः अतीव शीघ्रतया प्रवर्तते, च शीघ्रं निष्कर्षं प्राप्तवती भविष्यति।”

सा अपि अवदत् यत् वर्षे २०३० पर्यन्तम् २००० अब्ज-अमेरिकी-डॉलर् इत्यस्य महत्त्वाकाङ्क्षितलक्ष्यस्य प्राप्त्यर्थं निर्यातस्य संवर्धनाय सर्वाणि प्रयासाः क्रियन्ते।

वित्तमन्त्रिण्या देशस्य निर्यातस्थितेः उल्लेखः कृतः—

विनिर्दिष्टं यत् वित्तवर्षे २०२४–२५ तमे वस्तुनां सेवायाश्च समष्टिः निर्यातः ८२५ अब्ज-अमेरिकी-डॉलर् इत्यस्मिन् कीर्तिमान्-स्तरे प्राप्तः, यः २०२३–२४ तस्य वित्तवर्षस्य षट्-प्रतिशतवृद्धिं सूचयति।

एषः वित्तवर्षस्य २०१३–१४ तमे वर्षे ४६६ अब्ज-अमेरिकी-डॉलर् इत्यस्मात् महद् उत्तरणम् सूचयति।

यत्र वैश्विकनिर्याते केवलं ४% वृद्धिरेव दृश्यते, तत्र भारतीयनिर्यातकाः वैश्विकअनिश्चिततां अवलोक्य अपि ६.३ प्रतिशत-वृद्धिं पारयित्वा गम्यमानाः अभवन्।

------------

हिन्दुस्थान समाचार