वित्तमन्त्री GIFT सीटी तथा IFSCA-सम्बद्धैः विपणि-प्रतिभागिभिः सह सभा समारभते।
नवदेहली, 26 जूनमासः (हि.स)। गुजरातराज्ये गिफ्ट्-सिटी तथा आन्तरराष्ट्रीय वित्तीय सेवा केन्द्रे आयोजितायां सभायां भारतस्य केन्द्रीयवित्त-निगमकार्यमन्त्री श्रीमती निर्मलासीतारमण अध्यक्षता कृतवती। अस्याम् सभायां प्रमुखवित्तसंस्थानाम्, बीमासंस्थानाम्, वित
गिफ्ट सिटी और आईएफएससीए में आयोजित बैठक में वित्‍त मंत्री सीतारमण


गिफ्ट सिटी और आईएफएससीए में आयोजित बैठक में वित्‍त मंत्री सीतारमण


नवदेहली, 26 जूनमासः (हि.स)। गुजरातराज्ये गिफ्ट्-सिटी तथा आन्तरराष्ट्रीय वित्तीय सेवा केन्द्रे आयोजितायां सभायां भारतस्य केन्द्रीयवित्त-निगमकार्यमन्त्री श्रीमती निर्मलासीतारमण अध्यक्षता कृतवती। अस्याम् सभायां प्रमुखवित्तसंस्थानाम्, बीमासंस्थानाम्, वित्तसंस्थाभ्यः, निधिप्रबन्धन-संस्थाभ्यः, पूंजीबाजार-विक्रेतृभ्यः, भुगतानसेवाप्रदायकानां च वरिष्ठाः अधिकारी भागं गृहीतवन्तः। एवमेव ITF, विमानपट्टिका, नौकापट्टिका, BATF सेवाः, टेक्-फिन्-कम्पन्यः, उच्चशिक्षासंस्थाः च सम्मिलिताः आसन्।

सभायां गुजरातवित्तमन्त्री श्रीकणुभैदेशाई, केन्द्रीयवित्तसचिवः, आर्थिककार्यविभागसचिवः, वाणिज्य-विभागस्य विशेषसचिवः, भारतीयरिजर्वबैंकस्य उपराज्यपालः, बीमा-विनियामकसंस्थायाः कार्यवाहकाध्यक्षः, गिफ्ट्-सिटी तथा IFSCA-समितेः अध्यक्षः, वित्तमन्त्रालयस्य गुजरातराज्यस्य च वरिष्ठाः अधिकारी च उपस्थिता आसन्।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA