कमल हासनः अथ च आयुष्मान खुराना इत्याभ्यां लब्धं ऑस्कर समितेः सदस्यतायै निमंत्रणम्
द एकेडमी ऑफ मोशन पिक्चर आर्ट्स एण्ड साइंसेज़ इत्यस्य सदस्यता – कमलहासन, आयुष्मानखुराणायश्च सहित भारतात् अनेकानां विशिष्टानां कलाकाराणां नामानि प्रतिष्ठितसूच्यां समाविष्टानि।द एकेडमी ऑफ मोशन पिक्चर आर्ट्स एण्ड साइंसेज़ इत्यस्य सदस्यता प्राप्तुं यः कोऽ
ऑस्कर


द एकेडमी ऑफ मोशन पिक्चर आर्ट्स एण्ड साइंसेज़ इत्यस्य सदस्यता – कमलहासन, आयुष्मानखुराणायश्च सहित भारतात् अनेकानां विशिष्टानां कलाकाराणां नामानि प्रतिष्ठितसूच्यां समाविष्टानि।द एकेडमी ऑफ मोशन पिक्चर आर्ट्स एण्ड साइंसेज़ इत्यस्य सदस्यता प्राप्तुं यः कोऽपि कलाकारः समर्थः भवति, तस्य कृते एषा एकः गौरवपूर्णा उपलब्धिः इति गण्यते। अद्यतनकाले एकेडमी संस्थया सर्वस्य विश्वात् ५३४ प्रतिभाशालिनः जनाः सदस्यतायै आमन्त्रिताः। भारतदेशात् अपि अनेके प्रमुखाः कलाकाराः अस्याम् प्रतिष्ठायुक्तायां सूच्यां समाविष्टाः, यत्र प्रमुखतः कमलहासनः च आयुष्मानखुराणः च नामान्तरितौ।

दक्षिणभारतीयचलच्चित्रजगतः महानायकः कमलहासनः, च हिन्दीचलच्चित्रे प्रतिष्ठितः कलाकारः आयुष्मानखुराणः – एतौ उभौ इदं वर्षे एकेडमी-संस्थायां सदस्यत्वं प्राप्तवन्तौ। एते अद्य ऑस्करपुरस्कारानां मतदानं कर्तुं अर्हौ, यत् कोऽपि कलाकारः कृते अत्यन्तं गौरवजनकं च विशिष्टं च मान्यते।एतेषां द्वयोः कलाकारयोः अतिरिक्तं अपि अनेके भारतीयप्रतिनिधयः अस्याम् आमन्त्रितसूच्यां अन्तर्भूताः।तेषां नामानि यत् करण माली – कास्टिंग्-डायरेक्टर्, रणवीर दास – सिनेमैटोग्राफर्, मैक्सिमा बसु – वस्त्र-रचना-विशारदा, स्मृति मुंदड़ा – वृत्तचित्रनिर्मात्री,पायल कपाडिया – यया इत्याख्यं विश्वप्रशंसितं चलचित्रं निर्देशितं कृतम्।एकेडमी संस्थया एषा सूचना स्वस्य औपचारिकसोशलमाध्यमकोषे द्वारा प्रकाशिताभवत्।हॉलीवुड्-क्षेत्रात् अपि आमन्त्रिताः विशिष्टव्यक्तयः। एतस्मिन् वर्षे एकेडमी-संस्थया हॉलीवुड् क्षेत्रे अपि बहवः प्रमुखाः व्यक्तयः प्रथमवारं मतदान-सदस्यतायै आमन्त्रिताः। एषां मध्ये एरियाना ग्राण्डे – प्रसिद्धा गायिका, सेबेस्टियन स्टेन, जेरेमी स्ट्रॉंग्, जेसन मोमोआ – प्रसिद्धाः अभिनेता:, ऑब्रे प्लाज़ा, गिलियन एण्डरसन – प्रमुखाः नट्यः अपि सन्ति।यदि एते सर्वे ५३४ आमन्त्रिताः सदस्यतां स्वीकरिष्यन्ति, तर्हि एकेडमी-संस्थायाः सर्वसदस्यसंख्या ११,१२० इत्यस्मिन् अङ्के स्थाप्यते। तेषां मध्ये १०,१४३ सदस्याः मतदानाय पात्राः भविष्यन्ति, ये यथार्थतः ऑस्करपुरस्कारविनियोजनाय निर्णायकभूमिकां वहन्ति।ऑस्कर २०२६ आयोजनविवरणम्। पुरस्कारविधानं – १५ मार्च् २०२६ तमे दिनाङ्के। नामनिर्देशस्य मतदानप्रक्रिया – १२ तः १६ जनवरीपर्यन्तं, नामनिर्देशस्य घोषणातिथि – २२ जनवरी २०२६, नामनिर्दिष्टानां विशिष्टभोजनम् – १० फरवरी २०२६।एतस्य वर्षस्य आयोजनाय प्रसिद्धः प्रस्तुताकारः कोनन् ओ’ब्रायन मेजबानीं करिष्यति, येन सम्पूर्णं उत्सवम् अत्यन्तं विशेषम् आकर्षकम् च भविष्यति।गौरवेन ज्ञेयम्—एकेडमी-सदस्यता केवलं आवेदनस्य आधारतः न लभ्यते, किन्तु द्वाभ्याम् विद्यमानैः सदस्यैः अनुशंस्यते, यत्र व्यक्ति विशेषस्य व्यावसायिकसिद्धयः, गुणवत्ता च आधारभूतौ भवतः। अनेन कारणेन एषा प्रक्रिया अतीव विशिष्टा, दुर्लभा च मता जाता।

हिन्दुस्थान समाचार