सोनाक्षी सिन्हायाः चलचित्रं 'निकिता रॉय' अधुना 18 जुलाई दिनाङ्के आयास्यति
अभिनेत्र्याः सोनाक्षी सिन्हायाः ‘निकिता रॉय’ इत्यस्य चलचित्रस्य विमोचन-तिथि परिवर्तिता — इदानीं १८ जुलै तमे दिनाङ्के भविष्यति विमोचनम्।अभिनेत्री सोनाक्षी सिन्हा स्वस्य आगामि-चलचित्रेण ‘निकिता रॉय’ इत्यनेन पुनः चर्चायाः केन्द्रे समुपस्थिताः। अस्य रहस्
निकिता रॉय


अभिनेत्र्याः सोनाक्षी सिन्हायाः ‘निकिता रॉय’ इत्यस्य चलचित्रस्य विमोचन-तिथि परिवर्तिता — इदानीं १८ जुलै तमे दिनाङ्के भविष्यति विमोचनम्।अभिनेत्री सोनाक्षी सिन्हा स्वस्य आगामि-चलचित्रेण ‘निकिता रॉय’ इत्यनेन पुनः चर्चायाः केन्द्रे समुपस्थिताः। अस्य रहस्यमय-रोमाञ्चक-चलचित्रस्य विषये दर्शकाणां मध्ये विशेषो उत्साहः आसीत्। परन्तु चलचित्रस्य स्क्रीनिंग-पूर्वमेव निर्मातृभिः विमोचन-तिथौ परिवर्तनं कृतम्, येन कारणेन जनमानसे कौतूहलम् उत्पन्नम्।

‘निकिता रॉय एण्ड द बुक ऑफ डार्कनेस’ इति चलचित्रं पूर्वं २७ जून दिनाङ्के प्रेक्षागारेषु विमोचनीयं आसीत्। अस्य निर्देशनं सोनाक्ष्याः भ्राता कुश सिन्हा कृतवान् अस्ति, च सोनाक्षी अपि नव्ये रूपे दर्शकाणां समक्षं दृश्यन्ते इति कारणेन अपेक्षा विशेषं जातम्।किन्तु इदानीं नव्या विमोचन-तिथिः १८ जुलै २०२५ निश्चितम् अभवत्। एतत् स्वयमेव सोनाक्ष्याः इन्स्टाग्राम्-पोस्ट् द्वारा प्रकाशम् आगतम्। सा लिखितवती अस्माकं शुभेच्छुकानां निर्मातॄणां च सलाहानुसारं, वयं सामूहिकतया निर्णयं कृतवन्तः यत् एषः चलचित्रं १८ जुलै तमे दिनाङ्के विमोच्यते, यतः अधिकं प्रेक्षकसमुदायं यावत् अस्य लाभं प्राप्नुयात्।सा अपि प्रशंसकगणान् प्रति अपीलं कृत्वा अवदत् यत्— “किञ्चिद् कालं प्रतिक्षां कुर्वन्तु, चित्रं नूनम् अपि युष्माभिः प्रीयते।”

२७ जून दिनाङ्के बहूनि चलचित्राणि एकस्मिन्नेव दिने विमोच्यन्ते स्म, अतः ‘निकिता रॉय’ चलचित्रं पर्याप्तं स्क्रीन-समयं न प्राप्नोति स्म। अत एव प्रतिस्पर्धायाः परिहाराय एषः विमोचन-परिवर्तन-निर्णयः निर्मातृभिः कृतः इति स्पष्टं दृश्यते।

----------------

हिन्दुस्थान समाचार