Enter your Email Address to subscribe to our newsletters
शिमला, 28 जूनमासः (हि.स.)।
शिमलाजनपदस्य ननखडी थाना क्षेत्रे एकस्याः महिलायाः कृते दूरवाणी द्वारा ताडनं तथा अश्लीलवचनप्रयोगस्य प्रकरणं प्रकाशमागतम्। महिलाया लिखितशिकायत्या आधारं कृत्वा अज्ञातव्यक्तेः विरुद्धं भारतीयन्यायसंहितायाः धाराः ७८, ७९, ३५२ इत्यादीनुसारं अभियोगः पञ्जीकृतः अस्ति।
पीडितया स्वशिकायतिपत्रे लिखितं यत् २३ जून २०२५ दिनाङ्के मध्याह्ने १.३० वादने तस्याः पत्युः दूरवाणीसंख्यायां कश्चन अज्ञातव्यक्तिः सम्पर्कं कृतवान्। तेन उच्यते स्म यत् – ‘त्वं स्वपत्नीं नियंत्रयितुं न शक्नोषि, न च जानासि सा कुत्र गच्छति। सा नवानवान् पुरुषान् मिलति।’ एतत् श्रुत्वा यदा पीडिता तस्य नाम पृष्टवती, तदा सः स्वं रामपुरदेशीयं इति उक्त्वा दूरवाणीं विच्छिन्णवान्।
तस्मिन्नेव दिने सायंकालसमये पुनः सः अज्ञातव्यक्तिः पीडितां दूरवाण्या सम्पर्कं कृतवान् च अपशब्दैः गालिगोष्ठी च आरब्धवान्। पश्चात् तेन एव सूचितं यत् सः स्वयम् तां गृहेनयनं करिष्यति इति।
एतेन सह ननखडी पुलिसदलेन अस्य घटनायाः विषये अपराधपञ्जीकरणं कृत्वा अनुसन्धानकार्यं आरब्धम्। पुलिसविभागस्य अधिकारीकः शनिवारदिने उक्तवान् यत् – दूरवाणीसंख्यायाः आधारं कृत्वा अपराधिनं अन्विष्यते, च शीघ्रमेव तस्य विरुद्धं विधिसम्मतं कार्यं क्रियते।
---------------
हिन्दुस्थान समाचार