Enter your Email Address to subscribe to our newsletters
उत्तरकाशी, 03 जूनमासः (हि.स.)। राष्ट्रीयस्वयमसेवकसंघस्य उत्तरकाशी मंगलवासरे भारत-चीनसीमायाः समीपस्थस्य जनपदस्य प्रथमग्रामे जादुङ्गनगरे संघस्य शाखायाः आयोजनं कृतवती। सीमासमीपस्थेषु राज्यस्य ग्रामेषु पुनर्स्थापनार्थं केन्द्रसर्वकारस्य योजनानुसारं सामाजिककार्येषु सहभागिता वर्धयितुम् अस्य उद्देश्यम् अस्ति। अस्मिन् संघस्य 8 स्वयंसेवकाः उपस्थिताः आसन्।
स्वयम्सेवकाः जादुङ्गग्रामे संघस्य शाखायाः आयोजनं कृत्वा प्रार्थनां कृतवन्तः। एतस्मिन् स्वयंसेवकेषु अर्जुन गोसाई (प्रधानाचार्यः), बद्री सिंह चौहानः (नगर बौद्धिक प्रमुखः), राजवीरसिंहराणा (आचार्य सरस्वती विद्या मंदिर लकेश्वरं), बलवीर सिंह नेगी (छात्रावास प्रमुखः), मनवीरसिंहः, डॉ. जगदीशसिंहचौहानः (जनपद छात्र प्रमुखः) तथा च जनपदप्रचारप्रमुखः अनूपभंडारी उपस्थितः आसीत्।
ज्ञातव्यं यत् उत्तराखण्डस्य उत्तरकाशीमण्डलस्य मुख्यालयात् प्रायः 132 कि.मी दूरे स्थितं जादुङ्गग्रामं 1962 तमे वर्षे भारत-चीनयुद्धकाले निष्कासितम् आसीत् ।अधुना विगतकेषु वर्षेषु प्रधानमन्त्रिणा नरेन्द्रमोदी चीनसीमासमीपस्थे उत्तरकाशीमण्डले जादुङ्गग्रामं पुनःस्थापयितुं प्रयत्नाः त्वरिताः अभवन् राज्यसर्वकारेण जीएमवीएन (गढ़वाल मण्डल विकासनिगम) इत्यस्मै एतत् दायित्वं दत्तम् अस्ति । प्रथमचरणस्य अत्र 6 गृहस्थानानि निर्मीयन्ते । अस्मिन् ग्रामे पर्यटनं सांस्कृतिकं च कार्याणि प्रवर्धयितुं 10 कोटिरूप्यकाणां व्ययेन मेलास्थलस्य निर्माणं प्रस्तावितं वर्तते। एषा परियोजना जडसमुदायस्य पारम्परिकरीति सांस्कृतिकमहोत्सवानां च स्थायी मञ्चं प्रदास्यति।
------------------
हिन्दुस्थान समाचार / Dheeraj Maithani