महत्यां वृष्टो उपायुक्तोऽगृह्णात् स्थितेस्संज्ञानं, दत्तवांश्च निर्देशान्
पूर्वी सिंहभूमम्, 30 जूनमासः (हि.स.)।सततं वर्षमाणायाः अतिवृष्टेः कारणेन उत्पन्नस्थितेः निरीक्षणार्थं सोमवासरे उपायुक्तः कर्णः सत्यार्थी स्वयं मार्गे निर्यातः। सः मानगो क्षेत्रस्य पर्यटनं कृत्वा जलावृतानि प्रदेशानि, स्वर्णरेखानद्याः तटवर्तीक्षेत्राणि
बाढ़ का असर, उपयुक्त सड़क पर उतरे


बाढ़ का असर, उपयुक्त सड़क पर उतरे


बाढ़ का असर, उपयुक्त सड़क पर उतरे


पूर्वी सिंहभूमम्, 30 जूनमासः (हि.स.)।सततं वर्षमाणायाः अतिवृष्टेः कारणेन उत्पन्नस्थितेः निरीक्षणार्थं सोमवासरे उपायुक्तः कर्णः सत्यार्थी स्वयं मार्गे निर्यातः।

सः मानगो क्षेत्रस्य पर्यटनं कृत्वा जलावृतानि प्रदेशानि, स्वर्णरेखानद्याः तटवर्तीक्षेत्राणि, अन्यानि च संवेदनशीलस्थानानि निरीक्ष्य पर्यवेक्षणं कृतवान्। अस्मिन् अवसरः उपनगरायुक्तः कृष्णकुमारः अपि उपस्थितः आसीत्। उपायुक्तेन अधोभागेषु जलनिर्गमनव्यवस्थायाः समीक्षा कृत्वा, अधिकारियों प्रति आदेशः दत्तः यत् येषु स्थलेषु त्वरितपरिवर्तनस्य आवश्यकता अस्ति, तत्र पम्पसेट्, ट्रैक्टर्, स्वच्छताकर्मचाऱिणां च दलं सजगं सक्रियं च स्थाप्यं यत्, यत्किञ्चिदपि आपद्स्थिति समये त्वरितं समाधानं साध्येत।

स्वर्णरेखा खरकाई च नद्यौ अपि संकटरेखातः अधिकं वहतः स्तः।

एतयोः प्रभावतः अनेकानां गृहाणां मध्ये अपि जलप्रवेशः जातः। सम्पूर्णं जनजीवनं अस्तव्यस्तं जातम्। उपायुक्तेन नगरनिकायस्य पदाधिकारिभ्यः आदेशः दत्तः यत् सर्वेषां नालिकानां नियमितं स्वच्छता कार्यं सुनिश्चितं क्रियताम्, जलावृत्याः विषये प्राप्तानां शिकायतिनां शीघ्रं समाधानं क्रियताम्, तटप्रदेशेषु वसतां जनानां प्रति सतर्कतावार्ता दीयताम्, आपत्तिसम्बन्धिनीं व्यवस्था कृते नियन्त्रणकेन्द्रं चतुर्विंशतिघण्टासु सक्रियं स्थाप्यताम्।

मानगो-नगर-निगमे नियन्त्रणकेन्द्रं स्थाप्य कर्मचाऱिणां पालीवारं प्रतिनियुक्तिः कृता।

येन कालेनापि आवश्यककार्यं सम्यक् क्रियतां शक्यते। उपायुक्तेन कर्णेन सत्यार्थिना जिलावासिभ्यः अपील् कृता यत्, ते अफवाहाः मा शृण्वन्तु, नदीतीरेषु मा यान्तु, प्रशासनदत्तनिर्देशानां पालनं कुर्वन्तु च। तेन निगदितं यत्, जिला-प्रशासनं सर्वाः स्थितयः प्रति सततं निग्रहम् आचरति, आपत्सु सामर्थ्येन पूर्णतया सज्जं च अस्ति।

आपत्तिस्थितौ जिला-स्तरीय-नियन्त्रण-कक्षस्य दूरवाणीसंख्या — 0657-2444233 इति सम्पर्काय उपलब्धा।

तथा मानगो-नगर-निगम-नियन्त्रण-कक्षं कृते— प्रातः 6 वादनात् अपराह्ण 2 वदनपर्यन्तं — 7004549847

अपराह्ण 2 वादनात् रात्रेः 10 वदनपर्यन्तं — 9031542938

रात्रेः 10 वादनात् प्रातः 6 वदनपर्यन्तं — 7488676759 इत्येतेषु सञ्चारणसंख्याः सम्पर्काय निर्दिष्टाः।

---------------

हिन्दुस्थान समाचार