Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 30 जूनमासः (हि.स)।
भारत-अमेरिका देशयोः मध्ये व्यापारसन्धेः विषये सहमति: सम्पन्ना।
भारत-अमेरिका देशयोः मध्ये व्यापारसन्धेः विषये सहमति: जाता अस्ति। अयं सन्धिः शीघ्रमेव औपचारिकरूपेण घोषितः भविष्यति। भारतस्य व्यापारप्रतिनिधिमण्डलेन, कालमर्यादां पूर्वं मतभेदान् निराकर्तुं, अन्तिमप्रयत्नरूपेण वाशिङ्ग्टन्-नगरस्थं स्वं प्रवासं विस्तारितम्। अस्य सन्धेः कृते भारतस्य मुख्यवार्ताकारः वाणिज्यविभागे विशेषसचिवपदे कार्यरतः राजेशः अग्रवालः इत्यस्य नेतृत्वे एकं प्रतिनिधिमण्डलं वाशिङ्ग्टन्-नगरे वर्तमानम् अस्ति।
अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड् ट्रम्पेन वैश्विक-शुल्के (टैरिफ्) ९०-दिवसीयं स्थगनं यत् कृतम्, तस्य समयसीमा ९ जुलै दिनाङ्के समाप्तिं गमिष्यति। एतेन सम्बन्धित्य विश्वस्य राष्ट्रेषु चिन्ता वर्धिता अस्ति।
भारतस्य केन्द्रीयवाणिज्य-औद्योगिकमन्त्री पीयूष् गोयल् महोदयेन १० जून् दिनाङ्के वार्तासमाप्त्यन्ते उक्तम् यत्— भारत-अमेरिका देशौ निष्पक्षं न्याय्यं च व्यापारसन्धिं प्रति वार्ताम् आरब्धवन्तौ, यतः उभयोरपि अर्थव्यवस्थयोः लाभः भविष्यति।
वास्तवे, भारतदेशः इच्छति यत् प्रस्तावितं षड्विंशतिशतं (२६%) शुल्कं पूर्णतया प्रतिहृत्यते, तथैव अमेरिकेन यः इस्पाते (स्टील्) तथा यानयन्त्रसामग्र्यां (ऑटो पार्ट्स्) आरोपितः शुल्कः अस्ति, तस्मिन् अपि विश्रान्तिः दीयताम्।
परं अमेरिका-पक्षतः अपेक्ष्यते यत् भारतः सोयाबीन्, मक्का, यानानि, सुरा च एतेषां वस्तूनां आयाते यः शुल्कः अस्ति, तस्य न्यूनतां यथासम्भवम् कुर्यात्; अपि च, याः अवशुल्कीयबाधाः सन्ति, ताः अपि सहजतया परिवर्तनीयाः स्युः।
डोनाल्ड् ट्रम्प् महोदयेन गतसप्ताहे उद्घोषितम् यत्— अस्मिन् वैश्विक-शुल्के ९०-दिवसीयं स्थगनं अधिकं न विस्तार्यते। स्मरणीयम् यत् अमेरिका-देशेन २ एप्रिल् दिनाङ्के भारतनिर्मितवस्तूनि प्रति २६% अतिरिक्तशुल्कं आरोपयितुम् उद्घोषितम्, यत् ट्रम्प-प्रशासनेन ९० दिवसपर्यन्तं स्थगितम्। यद्यपि मूलशुल्करूपेण १०% करः अद्यापि प्रवृत्तः अस्ति। भारतदेशः इच्छति यत् २६%-अतिरिक्तशुल्कस्य पूर्णतः शैथिल्यं प्रदेयं भवेत्।
---------------
हिन्दुस्थान समाचार