देशस्य औद्योगिकम् उत्‍पादनं मईमासे नवानां मासानां निम्न स्तरे 1.2 प्रतिशतम्
नवदिल्ली, 30 जूनमासः (हि.स)। देशस्य औद्योगिक-उत्पादनस्य वृद्धिदरः विनिर्माण-खनन-विद्युत् क्षेत्राणां मन्दप्रदर्शनात् शिथिलः जातः। अस्य परिणामस्वरूपं सः मेय्-मासे (२०२५) नवमासानां न्यूनतमस्तरे—1.2 प्रतिशत—पर्यन्तं पतितः। गतवर्षस्य मेय्-मासे (२०२४) अय
औद्योगिक उत्‍पादन के लोगो का प्रतीकात्‍मक चित्र


नवदिल्ली, 30 जूनमासः (हि.स)।

देशस्य औद्योगिक-उत्पादनस्य वृद्धिदरः विनिर्माण-खनन-विद्युत् क्षेत्राणां मन्दप्रदर्शनात् शिथिलः जातः। अस्य परिणामस्वरूपं सः मेय्-मासे (२०२५) नवमासानां न्यूनतमस्तरे—1.2 प्रतिशत—पर्यन्तं पतितः। गतवर्षस्य मेय्-मासे (२०२४) अयं दरः 6.3 प्रतिशत-इत्येवं अभवत्।

सांख्यिकी तथा कार्यक्रम कार्यान्वयन मंत्रालयेन सोमवासरे प्रकाशितेषु आधिकारिकाङ्केषु उक्तं यत् अप्रैल्-मासस्य औद्योगिक-वृद्धिदरः अपि पूर्वाङ्कनतः (2.7 प्रतिशत) परिशोधितः सन् 2.6 प्रतिशतताम् प्राप्तः।

राष्ट्रिय-सांख्यिकी-कार्यालयस्य अङ्कानुसारं विनिर्माण-क्षेत्रस्य उत्पादनवृद्धिः अस्मिन्मेय्-मासे केवलं 2.6 प्रतिशतताम् प्राप्ता, या गतवर्षे तस्मिन्नेव काले 5.1 प्रतिशतासीत्।

एवमेव खनन-क्षेत्रे अपि 0.1 प्रतिशतं पतनं दृष्टम्, यत्र गतवर्षे 6.6 प्रतिशतं वृद्धिः प्राप्ता आसीत्। विद्युत्-उत्पादने 5.8 प्रतिशतं ह्रासः जातः, यः गतवर्षे तस्मिन्काले 13.7 प्रतिशतं वृद्धिरासीत्।

सङ्ख्याः दर्शयन्ति यत्, वर्तमान-वित्तवर्षस्य (2025–26) अप्रैल्-मेय् द्वैमासिके औद्योगिक-वृद्धिः वार्षिकाधारेण 1.8 प्रतिशतताम् प्राप्ता अस्ति।

---------------

हिन्दुस्थान समाचार