Enter your Email Address to subscribe to our newsletters
चण्डीगढ़म्, ३० जूनमासः (हि.स.)। पंजाबराज्यस्य फाजिल्कामण्डलात् एकविंशे जूनमासस्य दिनाङ्के लुप्तः जातः कृषकः पाकिस्तानदेशं प्राप्तः। सीमासुरक्षाबलस्य अधिकारीभिः तस्य लुप्तकृषकस्य बान्धवान् सोमवारे अस्य विषये सूचितम्। परन्तु बान्धवानां कथनानुसारं तान् प्रति आधिकारिकरूपेण कोऽपि स्पष्टविज्ञप्तिः न प्रदत्ता।
फाजिल्काजनपदस्य खैरेग्रामे उताड़ इत्यस्मिन् ग्रामे वसन् अमृतपालसिंहः नामकः कृषकः विगते एकविंशे जूनदिने प्रातःकाले कृषिं कर्तुं कण्टकाशृङ्खलाम् अतिक्रम्य गतः। सायं समये अन्ये कृषकाः प्रत्यागताः, किन्तु अमृतपालः न प्रत्यागच्छत्। तस्य कुटुम्बजनैः च सीमासुरक्षाबलस्य अधिकारीभिः च सह कण्टकाशृङ्खलां समीपं गत्वा निरीक्षणं कृतम्, यत्र तस्य पादचिह्नानि पाकिस्तानदिशं गच्छन्ति इति दृष्टानि।
तस्य पिता जगराजसिंहः उक्तवान् यत् अहम् रोगयुक्तः अस्मि, अतः सीमापारं कृषिकर्मणि न गच्छामि। गतवर्षेषु मम पुत्रः अमृतपालः एव प्रतिदिनं प्रातः नववादने गत्वा सायं पञ्चवादने प्रत्यागच्छति स्म। गुरुहरसहायप्रदेशस्य आरक्षकस्थानस्य प्रमुखः जसविन्दरसिंहबराडः नामकः अधिकारी उक्तवान् यत् बीएसएफ् च बान्धवाः च तं सूचितवन्तः यत् अमृतपालः अज्ञानवशात् पाकिस्तानं प्राप्तः। बीएसएफ्-बलस्य वरिष्ठाधिकारिणः तस्य कुटुम्बजनानां प्रति उक्तवन्तः यत् वयं पाकिस्तानसीमासुरक्षारक्षकैः सह निरन्तरं संवादं कुर्मः। शीघ्रमेव अस्य विषये समाधानं सम्भवति इति। एषः विषयः भारतकेन्द्रसर्वकाराय अपि सूचितः, परन्तु आधिकारिकरूपेण किमपि उद्घोषितं न जातम्।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA