विकास कार्याणि आधृत्य टाटानगराय युक्तानि बहूनि रेलयानानि निरस्तानि
पूर्वी सिंहभूमम्, 30 जूनमासः (हि.स.)। आद्रा-मण्डले प्रवर्तमानेषु विकासात्मककार्येषु परिणामतः टाटानगरद्वारा गच्छन्त्याः कतिपयानां रेलयानानां सेवानां च प्रभावः दृश्यते। सोमवासरे दक्षिणपूर्वरेलमार्गप्रशासनं सूचयत् यत् आगामिषु दिनेषु कतिपया रेलयात्राः नि
प्रतिकात्मक फोटो


पूर्वी सिंहभूमम्, 30 जूनमासः (हि.स.)। आद्रा-मण्डले प्रवर्तमानेषु विकासात्मककार्येषु परिणामतः टाटानगरद्वारा गच्छन्त्याः कतिपयानां रेलयानानां सेवानां च प्रभावः दृश्यते। सोमवासरे दक्षिणपूर्वरेलमार्गप्रशासनं सूचयत् यत् आगामिषु दिनेषु कतिपया रेलयात्राः निरस्ताः भविष्यन्ति, अन्यासां च मार्गे परिवर्तनं कृतम् अस्ति।

आसनसोल्-आद्रा-आसनसोल् मेमू-पैसेंजर् (६८०४६/६८०४५) इत्यस्य सेवा ३० जून, १ जुलै, ३ जुलै, ५ जुलै २०२५ इत्येषु दिनेषु स्थगिता भविष्यति।

झाड़ग्राम्-धनबाद्-झाड़ग्राम् मेमू-पैसेंजर् (१८०१९/१८०२०) इत्यस्य सेवा ३० जून तथा २ जुलै दिनाङ्कयोः स्थगिता भविष्यति।

एतदतिक्रम्य टाटानगर्-आसनसोल्-बराभूम् मेमू-पैसेंजर् (६८०५६/६८०६०) इत्यस्य रेलयानं ३० जून, १ जुलै, ३ जुलै, ५ जुलै दिनेषु आद्रायां समाप्तिं प्राप्य तस्मादेव पुनरागमनं करिष्यति।

भोजूडीह्-चन्द्रपुरा-भोजूडीह् मेमू-पैसेंजर् (६८०७९/६८०८०) इत्यस्य सेवा ३० जून तथा ४ जुलै दिनाङ्कयोः महुदायां समाप्तिं प्राप्य तस्मादेव पुनर्यात्रां आरप्स्यति।

रेलप्रशासनेन यात्रिकेभ्यः सहयोगाय निवेदनं कृतम्, असुविधायाः कृते खेदः अपि व्यक्तः।

---------------

हिन्दुस्थान समाचार