करियाचल्ली द्वीपं रक्षिष्यति तमिलनाडु सर्वकारः,व्ययीभविष्यन्ति 50 कोटिमितानि रूप्यकाणि
चेन्नई, 4 जूनमासः (हि.स.)।तमिलनाडु-राज्यसरकारया करियाचल्लीद्वीपपुनर्निर्माणाय पर्यावरण-संवर्धनाय महती योजना। तमिलनाडु-राज्ये थूथुकुडी-समीपे स्थितस्य करियाचल्लीद्वीपस्य पुनःसंवर्धनाय राज्यसर्वकारेण पञ्चाशत् कोटिरूप्यकाणां महती योजना आरब्धा अस्ति। एषः
Tamil Nadu Govt Launches Rs 50 Crore Initiative to Restore Kariyachalli Island


चेन्नई, 4 जूनमासः (हि.स.)।तमिलनाडु-राज्यसरकारया करियाचल्लीद्वीपपुनर्निर्माणाय पर्यावरण-संवर्धनाय महती योजना। तमिलनाडु-राज्ये थूथुकुडी-समीपे स्थितस्य करियाचल्लीद्वीपस्य पुनःसंवर्धनाय राज्यसर्वकारेण पञ्चाशत् कोटिरूप्यकाणां महती योजना आरब्धा अस्ति। एषः द्वीपः मन्नार-सागरे समुद्रराष्ट्रीयउद्यानस्य अन्तर्गतः अस्ति, यः पर्यावरणदृष्ट्या अतीव महत्वपूर्णः अस्ति। अस्याः योजनायाः प्रमुखः उद्देश्यः अस्ति—सागरे जैवविविधता-वृद्धिः तथा द्वीपस्थ-जनानां कल्याणः, यतो हि द्वीपस्य तीव्रं कटनं वर्तमानकाले जातम्। करियाचल्लीद्वीपः तेषां एकविंशतिं सुकुमारद्वीपानां मध्ये गण्यते, ये च चक्रवात-सुनामीप्रभृतिभिः तटीयप्रदेशान् रक्षन्ति। 2004 तमे वर्षे जातायां सुनाम्यां अपि अयं द्वीपः महत्त्वपूर्णं कार्यं कृतवान्।

अस्यां योजनायां, भारतीयप्रौद्योगिकीनिर्माणसंस्थया मद्रासनगरे स्थितया (IIT Madras) कृत्रिमप्रवालशिलानां निर्माणं कृतम्, याः ८५०० संख्या आसीत्। एताः शिलाः द्वीपस्य तटरेखां सुदृढयिष्यन्ति, सागरे नवगृहाणि प्रवालजीवानां कृते निर्मास्यन्त च। प्रायः त्रयः टनभारयुक्ताः एते शिलाखण्डाः लहरिप्रतिरोधं कुर्वन्तः कटनं न्यूनीकरिष्यन्ति च प्रवाल-वृद्धिं च सहायकाः भविष्यन्ति।

सिप्पिकुलम्-पट्टिनामारुथूर्-ग्रामवासिनः अपि एतेषां शिलानां प्रतिष्ठाय गोतकाशिक्षणं प्राप्नुवन्ति, येन समुदायस्य सहभागिता अपि वर्धते। अत्र योजनायां द्वौ एकड्-परिमाणयुतौ नष्टप्रवालप्रदेशौ च, त्रयः एकड्-परिमाणयुतं समुद्रतृणक्षेत्रं च पुनःसंवर्धितुं निश्चयं कृतम्।

पर्यावरण-सचिवया सुप्रिया साहू महोदयया उक्तम्—अनेन परियोजनया पार्यावरणपर्यटनस्य प्रवर्द्धनं साध्यते, समुद्रतृणस्य संवर्धनेन डुगोंग् नामकः समुद्रजीवः अपि पुनः आगन्तुं शक्नोति। एषः प्रकल्पः 2015 तमे वर्षे वानद्वीपे कृतस्य सफलपरियोजनायाः प्रेरणया आरब्धः अस्ति, यत्र पञ्चवर्षेषु स्थलम्, उथलजलम्, प्रवालमण्डलानि च सम्यक् विकासं प्राप्तवन्तः। करियाचल्लीद्वीपस्थे अपि अद्य जलगम्भीरता त्रिमीटरतः अर्धमीटरपर्यन्तम् अवनतिः प्राप्ता, यत् दर्शयति यत् शीघ्रं किञ्चित् कर्तव्यमेव। एम्.एस्. स्वामीनाथन् अनुसन्धानसंस्थायाः समुद्रविशेषज्ञः आर्. रामसुब्रमण्यं महोदयः उक्तवान् यत् उष्णतारोधकप्रवालप्रजातीनां प्रयोगः आवश्यकः, यतः समुद्रस्य तापवृद्धिः खलु प्रवालविनाशाय उत्तरदायिनी। यद्यपि प्रवालः प्रतिवर्षं केवलं एकसेंटिमीटरं वर्धते, तथापि कालान्तरे नवीनप्रवालसमूहः सम्भवः अस्ति। अस्य प्रकल्पस्य सफलता—निरन्तरनिगराणाय, समुदायस्य सहकाराय च आश्रिता अस्ति। विशेषतः मछुआयः 'समुद्रपालकाः' इव कार्यं कुर्वन्ति।

अयं प्रकल्पः केवलं पर्यावरणस्य पुनरुद्धाराय न, अपि तु पर्यावरणपर्यटनात् अन्येभ्यः सेवाभ्यः च स्थायीआयव्यवस्थायै आर्थिकसहायं जनाय च प्रदास्यति। यद्ययं प्रकल्पः सफलः भवति, तर्हि करियाचल्लीद्वीपस्य पुनःसंवर्धनं—जलवायुपरिवर्तनविरोधाय विज्ञानस्य, समुदायस्य, प्रकृतेश्च सामूहिकस्य प्रयत्नस्य एकम् आदर्शं भविष्यति।

---------------

हिन्दुस्थान समाचार