Enter your Email Address to subscribe to our newsletters
भाेपालम्, 5 जूनमासः (हि.स.)। अद्य (गुरुवासरे) राष्ट्रवादीचिंतकः, राष्ट्रीयस्वयंसेवकसंघस्य द्वितीयः सरसंघचालकः माधवरावसदाशिवरावगोलवालकरस्य जयन्ती अस्ति। अस्मिन् अवसरे मुख्यमन्त्री डॉ मोहनयादवः गुरुगोलवालकरं स्मरणं कृत्वा विनम्रश्रद्धांजलिम् अर्पितवान्। मुख्यमन्त्री डॉ यादवः सोशल मीडिया अकाउंट एक्सपटले स्वसन्देशे लिखितवान्, राष्ट्रीयस्वयंसेवकसंघस्य द्वितीयसरसंघचालकः परमपूज्यमाधवरावसदाशिवरावगोलवालकर 'गुरुजी' इत्यस्य पुण्यतिथौ सादरं श्रद्धांजलिम् अर्पयामि। राष्ट्रसेवा, मानवकल्याणं, निर्धनानाम् उत्थानार्थं भवतः प्रेरणादायकाः विचाराः देशस्य पुनर्निर्माणस्य आधाराः सन्ति। भारतमातुः सेवायाः मार्गे भवतः आदर्शान् आत्मसातयितुं वयं दृढनिश्चयाः स्मः।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani