Saturday, 21 June, 2025
हरियाणायाः मुख्यमन्त्री पूर्वकेन्द्रीयमन्त्री सुखदेवसिंहढींडसाके परिवारजनानां सान्त्वनां दत्तवान्
चण्डीगढ़म्, 7 जूनमासः (हि.स.)। हरियाणायाः मुख्यमन्त्री नायबसिंह सैनी शनिवासरे पञ्जाबदेशस्य संगरुरनगरे पूर्वकेन्द्रीयमन्त्री सरदार सुखदेवसिंहढींडसा इत्यस्य निवासस्थानं प्राप्य तस्य निधनस्य विषये गभीरं शोकसंवेदनां प्रकट्य परिवारजनानां सान्त्वनां दत्तवा
हरियाणा के मुख्यमंत्री नायब सैनी पूर्व केंद्रीय मंत्री सुखदेव ढींडसा के निधन पर शोक व्यक्त करते हुए


चण्डीगढ़म्, 7 जूनमासः (हि.स.)। हरियाणायाः मुख्यमन्त्री नायबसिंह सैनी शनिवासरे पञ्जाबदेशस्य संगरुरनगरे पूर्वकेन्द्रीयमन्त्री सरदार सुखदेवसिंहढींडसा इत्यस्य निवासस्थानं प्राप्य तस्य निधनस्य विषये गभीरं शोकसंवेदनां प्रकट्य परिवारजनानां सान्त्वनां दत्तवान्।

शोकं प्रकटयन् सः अवदत् यत् सरदार सुखदेवसिंहढींडसा इत्यस्य राजनैतिकयात्रा दीर्घा अस्ति। सः विधायकः, लोकसभायाः, राज्यसभायाः च सदस्यः अपि आसीत् तथा च पञ्जाबे सः मन्त्रीरूपेण लोकसेवायाः उत्तरदायित्वम् अपि निर्वहति स्म । सः अतीव बलवान् नेता आसीत् । तस्य जीवनम् अस्माकं सर्वेषां कृते प्रेरणादायकम् अस्ति। मुख्यमन्त्री वाहेगुरुं प्रार्थितवान् यत् सः दिवंगतात्मने स्वस्य चरणकमले स्थानं ददातु, परिवाराय दुःखं सहितुं बलं ददातु।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA