बलरामपुरम् : शिक्षकविहीनेभ्यः 14 विद्यालयेभ्यः लब्धाः नियमित शिक्षकाः
-युक्तियुक्तकरणेन शिक्षा व्यवस्थायां सुधारस्य नूतनारंभः, अधुना विद्यार्थिभ्यो लगते गुणवत्तापूर्ण शिक्षा बलरामपुरम्, 8 जूनमासः (हि.स.)। युक्तियुक्तकरणप्रक्रियया बलरामपुरजनपदे स्थितानि चतुर्दश शिक्षकशून्यविद्यालयानि नियमितशिक्षकान् प्राप्तानि। यावत्
जिला शिक्षा अधिकारी डीएन मिश्र फाइल फाेटाे


-युक्तियुक्तकरणेन शिक्षा व्यवस्थायां सुधारस्य नूतनारंभः, अधुना विद्यार्थिभ्यो लगते गुणवत्तापूर्ण शिक्षा

बलरामपुरम्, 8 जूनमासः (हि.स.)। युक्तियुक्तकरणप्रक्रियया बलरामपुरजनपदे स्थितानि चतुर्दश शिक्षकशून्यविद्यालयानि नियमितशिक्षकान् प्राप्तानि। यावत् एतेषां विद्यालयानां संचालनाय संलग्नीकरणप्रणाल्या कार्यं क्रियते स्म, किन्तु अधुना एषा समस्या निराकृता। राज्यशासनस्य पहलया जनपदे शिक्षाव्यवस्थायाः सुदृढीकरणं सुव्यवस्थापनं च साधयितुं युक्तियुक्तकरणप्रक्रिया सफलतया सम्पादिता।

एषा योजनायाः मुख्यः उद्देश्यः अस्ति – छात्रेभ्यः विषयानुसारं गुणवत्तायुक्तां शिक्षा प्रदातुं सुनिश्चितं कर्तुम्। युक्तियुक्तकरणस्य अन्तर्गतं शिक्षकविहीनम् एकशिक्षकसम्पन्नं च विद्यालयं यावत्, तत्र अतिशेषशिक्षकाणां ओपनकाउन्सलिङ्ग् प्रक्रियया पदस्थापनं कृतम्। अधुना जनपदे न कोऽपि विद्यालयः अवशिष्टः अस्ति यत्र नियमितशिक्षकस्य नियुक्तिः न कृताः।

जनपदस्य शिक्षा-अधिकारी श्री डी.एन. मिश्रः रविवासरे इदं सूचितवान् यत् पूर्वं जनपदे चतुर्दश प्राथमिकविद्यालयाः पूर्णतया शिक्षकविहीनाः आसन्।

तेषु विद्यालयेषु निम्नलिखिताः सम्मिलिताः - बलरामपुरविकासखण्डस्य प्राथमिकशाला महाराजगञ्जः,शंकरगढक्षेत्रस्य दोहना, रामचन्द्रपुरस्य जोगनीपारा, इन्द्रापुर, लावा, केवली, औरंगा, पीपरपान, सुन्दरपुर, परसाखाड्, औराझरिया,

वाड्रफनगरक्षेत्रस्य खैरगावम्, टोलकुपारा, जरहाटोला च।अधुना एतेषां सर्वेषां विद्यालयानां शिक्षकमण्डलेन पूर्तिः सम्पूर्णा जात। पूर्वं अस्थायीनियोजनरूपेण संलग्नीकरणस्य माध्यमेन शिक्षकव्यवस्था कृता जाता, या गुणवत्तायाः बाधकत्वेन कार्यम् अकरोत्।

किन्तु अधुना विषयानुसारं स्थायीशिक्षकप्रदानेन, बालकानां उपस्थितौ वृद्धि भविष्यति, परित्यागदरस्यानपि न्यूनता सम्भाव्यते। जिलाशिक्षाअधिकारी उक्तवान् यत् युक्तियुक्तकरणस्य उद्देश्यं विद्यालयानां समापनं नास्ति, अपि तु संसाधनानां मानवीय-संसाधनानां च सम्यक् समायोजनं अस्ति। एतस्य प्रक्रियायाः अन्तर्गतं, जनपदे तेषु चत्वारः विद्यालयाः, यत्र छात्रसंख्या दशभ्यः अपि न्यूनम् आसीत्, तेषां समायोजनं समीपवर्तीविद्यालयेषु कृतम्।

तेन एवम् अपि उक्तं यत्, युक्तियुक्तकरणेन छात्रेभ्यः बारबारं विद्यालयपरिवर्तनस्य आवश्यकता न भविष्यति, येन शैक्षिकनिरन्तरता संरक्षिता भविष्यति। एवञ्च छात्रशिक्षकानुपातः सम्यक् भविष्यति, विद्यालयेषु विशेषज्ञशिक्षकानां उपलब्धता अपि वर्धिष्यते। एषः निर्णयः केवलं शिक्षायाः गुणवत्तायाः वृद्धिं करिष्यति, अपितु शासनस्य उद्देश्यस्य अनुरूपं सुदृढस्य सशक्तस्य च शिक्षातन्त्रस्य दिशायां महत्वपूर्णं पङ्क्तिं लेखिष्यति।

---------------

हिन्दुस्थान समाचार