Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 08 जूनमासः (हि.स.)।राजधानीगुवाहाटिनगरेण सह ब्रह्मपुत्रनद्याः पार्श्वे स्थितस्य उत्तरगुवाहाटिनगरस्य मध्ये रविवासरात् पुनः एकवारं यन्त्रचालितनावयानस्य (फेरीसेवायाः) आरम्भः जातः। विदितं भवतु यत् गतदिनेषु मूसलधारेण वर्षायाः कारणेन ब्रह्मपुत्रनद्याः जलस्तरः शीघ्रं वर्धितः आसीत्, यस्मात् कारणात् कामरूपमेट्रोमण्डलप्रशासनेन अस्य नद्याः यानसेवा अस्थायीरूपेण अग्रिमादेशपर्यन्तं स्थगिता आसीत्।
गुवाहाटि–उत्तरगुवाहाटिनगरेषु गतप्रथमजूनमासस्य दिनाङ्कतः फेरीसेवा स्थगिता आसीत्। अन्तर्देशीयजलपरिवहनविभागस्य अनुसारं गुवाहाटि–उत्तरगुवाहाटिनगरेषु स्थितेषु त्रिषु अपि घाटेषु अधुना फेरीसेवायाः सञ्चालनं सम्पद्यते। मध्यखण्डस्थात् घाटात् फेरीसेवा राजादुआरनाम्नः स्थलात् आरभ्य सञ्चालितुं नियोजिता अस्ति।
फेरीसेवायाः पुनरारम्भेन गुवाहाटि–उत्तरगुवाहाटिनगरेषु जनानां आवागमनं सुगमं भविष्यति। यानसेवायाः स्थगनेन सामान्यजनानां दीर्घं पन्थानं गत्वा यानं कर्तुं बाध्यता आसीत्।
------------------
हिन्दुस्थान समाचार