Enter your Email Address to subscribe to our newsletters
जयपुरम्, 8 जूनमासः (हि.स.)
कृति प्रोडक्शन्स् इत्यस्मात् निर्मितः देशभक्तिपरः गीतः ‘सिन्दूरस्य अपमानः’ इत्यस्य चित्रीकरणकार्यं रविवासरे जयपुरनगरस्य अमरजवान् स्मारके पूजनपूर्वकं शुभमुहूर्ते आरब्धम्। अयं गीतः हालसम्प्रती कश्मीरे पाहलगाम् प्रदेशे घटितस्य आक्रमणस्य शहीदानां प्रति समर्पितः अस्ति। इदं गीतं राष्ट्रस्य कन्याभ्यः, भगिनीभ्यः, मातृभ्यश्च सम्मानं सूचयति, तेषां गरिम्णः कथनं च अस्ति।
एतस्मिन् अवसरे राष्ट्रियकरणीसेनायाः अध्यक्षः श्री शिवसिंहशेखावतः, राजस्थानराज्यस्य प्रथम-त्रैतीयलिङ्गिनी पासपोर्टधारिका, महिला उद्यमी फोरम् ऑफ् अफ्रिका (भारत) अध्यक्षा, समाजसेविका च भारतीयजनतापक्षस्य कार्यकर्त्री च श्रीमती रोज़ी बारोलिया अपि उपस्थिताः आसन्।
अस्मिन्नेव गीते प्रमुखभूमिकायां श्री शिवसिंहशेखावतः च श्रीमती रोज़ी बारोलिया च दृश्येते।
गीतस्य गीतकारः अशोकगुप्तः, निर्देशकः डॉ. भवानीसिंह राठौडः, अशोकगुप्तः, कनुप्रिया च, संगीतनिर्माता अभिजीतमजूमदारः, गायकः तारिक़अज़ीज़ः च सन्ति।
अन्ये प्रमुखकलाकाराः — निकिलदेवः, चेन्नारामः, डॉ. भवानीराठौडः, पूजाजांगिडः, दीप्तिसैनी, राघवेन्द्रराणावतः, शुचिगुप्ता इत्यादयः।
एषः गीतः भारतीयसेनायाः शौर्यं, शहीदानां त्यागं च समर्प्य भावपूर्णं संदेशं दत्ते। ‘सिन्दूरस्य अपमानः’ इत्यस्य विरुद्धे शक्तिशालिनी स्वरप्रतिध्वनिः अपि अस्ति।
गीतस्य चित्रीकरणस्थले अमरजवान्ज्योतिः, जलमहल् (जयपुर) इत्यादयः विख्याता स्थले निर्दिष्टाः।
विशेषतया ज्ञेयम् यत् कृति प्रोडक्शन्स् इत्येतत् संस्थानं एकं राष्ट्रभक्तिपरं सामाजिकं च प्रोडक्शन् हाउस् अस्ति, यत् पूर्वं ‘हिन्द् की सेना’ इत्यस्य विख्यातगीतस्य निर्माणं कृतवद्, यः गीतः राजस्थानराज्यस्य उपमुख्यमन्त्रिणा डॉ. प्रेमचन्दबैरवा इत्यनेन उद्घाटितः आसीत्।
एतैः एव ‘एकः राजपूतः कृषकः’, ‘गुड् समैरिटन् सेव्स् लाइफ्’, ‘बन् नेक् इन्सान्’ इत्यादीनां डॉक्युमेन्ट्री-चित्राणां च निर्माणं कृतम्।एवं राष्ट्रे समर्पितं कला-यत्नं राष्ट्रभक्तेः दृढप्रतिबद्धतां प्रकटयति।
---------------
हिन्दुस्थान समाचार