मणिपुरस्य पञ्चसु जिलासु इंटरनेट मोबाइल डेटा सेवाः 5 दिनेभ्यो निलंबिता
इंफालम्, 8 जूनमासः (हि.स.)।मणिपुरराज्ये वर्तमानकाले विधिनियमपालनस्य दयनीयां स्थितिं दृष्ट्वा राज्यसर्वकारेण इंफाल् पश्चिम, इंफाल् पूर्व, थौबल्, काकचिंग्, विष्णुपुर् इत्येतेषु जनपदेषु पञ्चदिनपर्यन्तं इन्टरनेट् तथा मोबाइल्-दत्तांशसेवाः (यत्र वी-सैट् तथ
ইণ্টাৰনেট


इंफालम्, 8 जूनमासः (हि.स.)।मणिपुरराज्ये वर्तमानकाले विधिनियमपालनस्य दयनीयां स्थितिं दृष्ट्वा राज्यसर्वकारेण इंफाल् पश्चिम, इंफाल् पूर्व, थौबल्, काकचिंग्, विष्णुपुर् इत्येतेषु जनपदेषु पञ्चदिनपर्यन्तं इन्टरनेट् तथा मोबाइल्-दत्तांशसेवाः (यत्र वी-सैट् तथा वी-पी-एन् सेवाः अपि अन्तर्भवन्ति) स्थगयितुं आदेशः निर्गतः। अयं आदेशः शनिवासरे रात्रौ ११:४५ वादनात् प्रभावी जातः।आदेशे स्पष्टीकृतं यत् सामाजिकमाध्यमप्लेटफॉर्मद्वारा भ्रामकसन्देशाः, द्वेषयुक्तवाक्यानि, असत्यवृत्तयः च प्रसारयितुं सम्भावना अस्ति, यतः जनसमाजे उद्वेगः जायेत, शान्तिश्च विघट्येत।

प्रशासनेन आशङ्कितं यत् एतेन जातीयविवादः, सार्वजनिकस्वं च निजीस्वं च हानिं प्राप्नुवीत।

राज्यगृहविभागस्य आयुक्त-कम- सचिवेन एन्. अशोककुमारेन प्रदत्ते आदेशे निर्दिष्टं यत् अपवादप्रसारणं तथा उद्दीपनक्रियाः निरोद्धुं एषः उपायः आवश्यकः।

एषः आदेशः “टेम्पररी सस्पेन्शन् ऑफ् टेलीकॉम् सविर्सेस् रूल्स्, २०१७” इत्यस्य अधीनं पारितः अस्ति। आज्ञायां एषा अपि बाति सूचितं यत् अयं निर्णयः त्वरितप्रभावे, एकतर्फतः च स्वीकृतः अस्ति, यश्च पत्रकारमाध्यमेन च इलेक्त्रॉनिक्-माध्यमेन च जनसमक्षं प्रचार्यते।

केवलं ताः एव सरकारीसंस्थाः एषु सेवासु सम्मिलिताः भविष्यन्ति, याः राज्यसर्वकारेण विशेषतः श्वेतसूचीकृताः। कश्चन जनः यदि अस्य आदेशस्य उल्लङ्घनं करोति चेत्, तर्हि तस्मिन् विरुद्धं विधिनुकूलं दण्डात्मकं कार्यं क्रियते।

हिन्दुस्थान समाचार