Tuesday, 24 June, 2025
झारखंडे 15 अनन्तरं वर्षापवनस्य संभावना
रांची, 8 जूनमासः (हि.स.)।झारखण्डराज्ये पञ्चदशे जूनतिथेः अनन्तरं दक्षिणपश्चिममानसूनस्य आगमनस्य सम्भावना अस्ति। दशमजूनतिथेः अनन्तरं राज्ये मौसमे परिवर्तनं भविष्यति इति। एषा सूचना रविवासरे मौसमवैज्ञानिकः अभिषेकआनन्दः प्रदत्तवान्। सः अवदत् यत् झारखण्डराज
मौसम की फाइल फोटो


रांची, 8 जूनमासः (हि.स.)।झारखण्डराज्ये पञ्चदशे जूनतिथेः अनन्तरं दक्षिणपश्चिममानसूनस्य आगमनस्य सम्भावना अस्ति। दशमजूनतिथेः अनन्तरं राज्ये मौसमे परिवर्तनं भविष्यति इति। एषा सूचना रविवासरे मौसमवैज्ञानिकः अभिषेकआनन्दः प्रदत्तवान्। सः अवदत् यत् झारखण्डराज्ये मानसूनः विलम्बेन आगमिष्यति। अधुना राज्यस्य विविधेषु स्थलेषु स्वल्पवृष्टिः भविष्यति। तापमानस्य विषये सः अवदत् यत् सम्प्रति तापमाने उत्थानपतनं दृष्टव्यं भविष्यति। यावत् रविवासरे राञ्ची नगरं तस्य च पार्श्ववर्तीप्रदेशाः च आकाशेन निर्मलाः आसन्, अतः तीव्रगर्मी अनुभविता। गतचतुर्विंशतिघण्टाभ्यन्तरे राज्ये सर्वाधिकं वर्षा जामतारा-जिलस्य नारायणपुरे 40.6 मिमी इति अभिलिखिता। राज्ये सर्वाधिकं अधिकतमतापमानं चाईबासा नगरे 38.2 डिग्रीसेल्सियस, सर्वन्यूनं न्यूनतमतापमानं धनबादे 20.8 डिग्रीसेल्सियस इति अभिलिखितम्। रविवासरे राञ्चीमध्ये अधिकतमतापमानं 33.6, जमशेदपुरे 37.2, डालटेनगञ्जे 39.0, बोकारोमध्ये 37.1 तथा च चाईबासायां 37.4 डिग्रीसेल्सियस इति अभिलिखितम्।

---------------

हिन्दुस्थान समाचार