Enter your Email Address to subscribe to our newsletters
दरंगम् (असमः), 08 जूनमासः (हि.स.)।प्राकृतिकआपदां प्रतिरोद्धुं मानवः प्रायः ईश्वरस्य शरणं प्राप्नोति। एषु एव प्रसङ्गेषु दरङ्गजनपदे अपि ग्रामवासिनः बाढनिवृत्त्यर्थं नद्याः पूजनं कुर्वन्तः दृष्टाः। एषा नदीपूजा सिपाझारक्षेत्रे स्थिते घोरासाल-कुमारपारा नाम्नि स्थले आयोजिता। ईश्वरस्य निकटे शरणं गत्वा तत्र स्थानीयमातृगणैः नामकीर्तनं कृत्वा बाढरक्षणार्थं प्रार्थना कृता। वर्षाकाले ननै-नद्याः बाढजलेन जनानां किमपि नाशं न स्यात् इत्यर्थं ग्रामवासिभिः विधिविधानपूर्वकं जलपूजनं प्रारब्धम्।
ग्रामवासिनः कथयन्ति यत् श्रद्धा वर्तते—जलपूजया आगामिनी बाढा ग्रामं रक्षिष्यति। धनं, संपदः, कृषि च न नश्यन्ति। सर्वे ग्रामवासिनः भक्तिभावेन सहिताः जलपूजायाम् सम्मिलिताः दृश्यन्ते स्म।
-------------------
हिन्दुस्थान समाचार