मुख्यमंत्री विष्णु देव सायः चिंतन शिविरस्य 2.0 द्वितीये दिने योगाद् दिनस्य आरंभः
-मंत्रिमंडलस्य सदस्यैः सह विभिन्न आसनानां कृतः अभ्यासः रायपुरम् 9 जूनमासः (हि.स.)।मुख्यमंत्री विष्णुदेवसायः अद्य सोमवारे भारतीयप्रबन्धनसंस्थानस्य नवानगररायपुरस्थितपरिसरे क्रीडाङ्गणे मन्त्रिमण्डलस्य सदस्यैः सह योगासनं कृत्वा चिन्तनशिविरस्य 2.0 सं
मुख्यमंत्री विष्णु देव साय ने चिंतन शिविर 2.0 के दूसरे दिन योग  करते हुए


-मंत्रिमंडलस्य सदस्यैः सह विभिन्न आसनानां कृतः अभ्यासः

रायपुरम् 9 जूनमासः (हि.स.)।मुख्यमंत्री विष्णुदेवसायः अद्य सोमवारे भारतीयप्रबन्धनसंस्थानस्य नवानगररायपुरस्थितपरिसरे क्रीडाङ्गणे मन्त्रिमण्डलस्य सदस्यैः सह योगासनं कृत्वा चिन्तनशिविरस्य 2.0 संस्करणस्य द्वितीयदिनस्य आरम्भं कृतवान्। सः योगस्य उल्लेखं कृत्वा उक्तवान् यत्— योगः स्वास्थ्यजीवनशैल्याः आधारः अस्ति। योगः न केवलं शरीरे स्वास्थ्यं रक्षति, अपि तु मनः अपि शान्तिं यच्छति तथा च अस्मान् प्रकृतेः अधिकं सन्निकर्षे आनयति।

एषः योगाभ्यासः केवलं प्रेरणास्पदः उपक्रमः न आसीत्, किन्तु राज्ये स्वास्थ्यं संतुलितजीवनशैली च प्रोत्साहयितुं शक्तियुक्तं संदेशं अपि दत्तवान्।

अस्मिन योगसत्रे मुख्यमंत्री विष्णुदेवसायः सह उपमुख्यमंत्री अरुणसावः, वनमन्त्री केदारकश्यपः, उद्योगमन्त्री लखनलालदेवाङ्गन्, कृषिमन्त्री रामविचारनेताम्, खाद्यमन्त्री दयालदासबघेलः, स्वास्थ्य मन्त्री श्यामबिहारी जायस्वालः, राजस्वमन्त्री टंकरामवर्मा च उपस्थिताः आसन्। तत्रैव भारतीयप्रबन्धनसंस्थानस्य रायपुरशाखायाः निदेशकः प्रोफेसररामकुमारकाकानी अपि सम्मिलितः आसीत्।

हिन्दुस्थान समाचार