मुख्यमंत्री 210 कोटिमितानां विकास योजनानां कृतौ लोकार्पणशिलान्यासौ
मुख्यमंत्री अवदत्-क्षेत्रे आर्थिक विकासाय प्राप्यते बलम्उत्तरकाशी/पुरोला, 09 जूनमासः (हि.स.)। मुख्यमन्त्रिणा पुष्करसिंहेन धामिना सोमवासरे उत्तरकाशीजनपदस्य पुरोलानगरे २१० कोटिरूप्यकाणां विविधविकासयोजनानां लोकार्पणं शिलान्यासश्च कृतम्। अस्मिन् सन्दर्भ
उत्तरकाशी के पुरोला में मुख्यमंत्री पुष्कर सिंह धामी  कार्यक्रम को संबोधित करते।


उत्तरकाशी के पुरोला में मुख्यमंत्री पुष्कर सिंह धामी विभिन्न विकास योजनाओं का लोकार्पण और शिलान्यास करते।


मुख्यमंत्री अवदत्-क्षेत्रे आर्थिक विकासाय प्राप्यते बलम्उत्तरकाशी/पुरोला, 09 जूनमासः (हि.स.)। मुख्यमन्त्रिणा पुष्करसिंहेन धामिना सोमवासरे उत्तरकाशीजनपदस्य पुरोलानगरे २१० कोटिरूप्यकाणां विविधविकासयोजनानां लोकार्पणं शिलान्यासश्च कृतम्। अस्मिन् सन्दर्भे आयोजिते भव्ये कार्यक्रमे सः अवदत् यत् एताः योजनाः क्षेत्रस्य समग्रविकासे नागरिकाणां च जीवने स्तरवृद्धौ महत्त्वपूर्णं योगदानं करिष्यन्ति।

मुख्यमन्त्रिणा ३५ योजनानां लोकार्पणं २० योजनानां च शिलान्यासः कृतः। तेन उक्तं यत् एतेषां योजनानां फलस्वरूपं क्षेत्रे आर्थिकविकासः प्रवर्धिष्यते, सम्पर्कव्यवस्था सुधारिष्यते, रोजगारस्य अवसराः अपि उत्पद्यन्ते। शिक्षाक्षेत्रे, स्वास्थ्ये, पेयजलवितरणे, मार्गनिर्माणे च एषाः योजनाः मीलस्तम्भवत् भविष्यन्ति इति तेन उद्घोषितम्।तस्य भाषणे सः अवदत् यत् एषाभिः योजनाभिः उत्तरकाशीजनपदस्य पुरोलानगरस्य समीपस्थेभ्यः क्षेत्रेभ्यश्च लक्षसंख्याकजनाः प्रत्यक्षं लाभं प्राप्स्यन्ति।

अस्मिन सन्दर्भे मुख्यमन्त्रिणा पुरोलास्थे क्रीडाङ्गणस्य उन्नयनम्, मोरिनगरे देव्राग्रामे कर्णमहाराजमन्दिरस्य सौन्दर्यीकरणम्, नौगांव क्षेत्रे रुद्रेश्वरमहादेवमन्दिरस्य शोभावर्धनम्, नौगांवसमुदायिकस्वास्थ्यकेन्द्रस्य विस्तारः, पुरोला-नौगांव मोटरमार्गस्य डूकाणा रोड द्वारा मोरीबैंड पर्यन्तं बाईपासमार्गस्य निर्माणम्, मोरिनगरस्य पट्टी गडूगाड़ प्रदेशात् देवजानी ओरा इत्यस्मात् केदरकांठा पर्यन्तं क्षेत्रस्य पर्यटकक्षेत्ररूपेण घोषणां च कृतवान्।

सः अवदत् यत् पुरोला क्षेत्रे शिक्षा, स्वास्थ्य, पेयजल, मार्गनिर्माणस्य क्षेत्रे यः विकासः जातः, सः क्षेत्रविकासाय मीलस्तम्भः भविष्यति। पर्यटनं बागवानी च अस्मिन्नेव क्षेत्रे महानवसरयुक्ते स्तः इति अपि तेन निगदितम्।

मुख्यमन्त्री अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदीनः नेतृत्वे राष्ट्रं निरन्तरं विकासमार्गे अग्रे सरति। राज्ये सरकारा विकल्पहीनसंकल्पेन सर्वेषां विधानसभा-क्षेत्रेषु पूर्वं प्रदत्तानां घोषणानां पालनं कुर्यात् इति प्रतिबद्धा अस्ति। प्रधानमन्त्रिणः नेतृत्वे गतं एकादशवर्षीयं कालखण्डं सेवा, सुशासनं, दरिद्रजनकल्याणं च समर्पितम् इति च सः अवदत्।

याः योजनाः अधुना आरम्भ्यन्ते, ताः शीघ्रं सम्पाद्यन्ताम् इति राज्यसरकारायाः प्रथमता अस्ति। राज्ये अपराधचिन्तनयुक्तानां विरुद्धं कठोरक्रियाः अपि क्रियन्ते। राज्ये सख्तं भू-कानूनं प्रवर्तितम्। उत्तराखण्डः देशे प्रथमं समनागरिकसंहितां (UCC) प्रवर्तितवान् प्रदेशः जातः।

राज्ये भ्रष्टाचारविरुद्धं 'शून्य-सहिष्णुता' (Zero Tolerance) नीतिः अनुष्ठीयते इति अपि मुख्यमन्त्रिणा सूचितम्।अस्मिन् अवसरि पुरोलाविधायकेन दुर्गेश्वरलालेन समस्तक्षेत्रस्य प्रतिनिधित्वं कृत्वा मुख्यमन्त्रिणं प्रति कृतज्ञता प्रकटिता। रंवाईक्षेत्रे चिकित्सालयस्य भूमिपूजनस्य, मोरी-जखोल मोटरमार्गस्य निर्माणस्वीकृतेः च सः आभारं निवेदितवान्।तेन उक्तं यत् मुख्यमन्त्रिणः नेतृत्वे शून्य-सहिष्णुता, समनागरिकसंहिता, 'सिल्क्यारा सुरंग रेस्क्यू' इत्यादीनि ऐतिहासिककृत्यानि सम्पन्नानि।अस्मिन् कार्यक्रमे गंगोत्रीविधायकः सुरेशचौहानः, पूर्वविधायकः मालचन्दः, भाजपा जिलाध्यक्षः नागेन्द्रचौहानः, राज्यमन्त्री प्रतापसिंहपंवारः, रामसुन्दर नौटियालः, जगतसिंहः, नगरपालिकाध्यक्षः बिहारीलालशाहः, जिलाधिकारी डॉ॰ मेहरबानसिंहबिष्टः, पुलिसअधीक्षकः सरिता डोभालः च प्रमुखतः उपस्थिताः आसन्।

----

हिन्दुस्थान समाचार