Enter your Email Address to subscribe to our newsletters
भोपालम्, 9 जूनमासः (हि.स.)।मुख्यमन्त्री डाॅ. मोहन यादवः अद्य (सोमवारदिने) नरसिंहपुरजनपदस्य प्रवासे सन्ति। ते गाडरवारानगरे आयोज्यमाने स्थानीये कार्यक्रमे भागं ग्रहीष्यन्ति।
मुख्यमन्त्री डाॅ. यादवः अष्टकोटिशत् षट्चत्वारिंशलक्षरूप्यकाणां व्ययेन सम्पद्यमानानां १३५ निर्माणकार्याणां लोकार्पणं भूमिपूजनं च करिष्यन्ति। एतेषु – षट्षष्टिकोट्यधिकानां ६७ कार्याणां (₹५६.५८ कोटिः) लोकार्पणं, तथा त्रयोविंशत्कोट्यधिकानां ६८ कार्याणां (₹२३.८८ कोटिः) भूमिपूजनं च सम्मिलितम् अस्ति।
जनसम्पर्काधिकारिणा श्रीके.के. जोशी महोदयेन निगदितं यत् मुख्यमन्त्री डाॅ. यादवः प्रातः ११.४० वादने स्टेट् हेंगर् भोपालात् हेलीकाॅप्टरद्वारा प्रस्थित्य मध्याह्ने १२.२० वादने गाडरवारा-हैलीपेडं प्राप्स्यन्ति। ते तत्र स्थानीये कार्यक्रमेषु भागं स्वीकरिष्यन्ति। कार्यक्रमे ते निर्माणकार्याणां लोकार्पणं भूमिपूजनं च करिष्यन्ति।
प्रमुखरूपेण “जल जीवन मिशन” अन्तर्गत देवरीतः बनवारीपिपरियातः ८.२७ कि.मी. लम्बायाः मार्गस्य निर्माणं (व्ययः ₹३.९६ कोटिः), साईंखेडायाम् सीवरेज-मलजल-योजना, पुस्तकालयः, प्रतीक्षालयः इत्यादयः शहरीविकाससंवद्धकार्याणां लोकार्पणं तथा ₹२३.८८ कोटिरूप्यकव्यययुक्तानां निर्माणकार्याणां भूमिपूजनं च करिष्यते।
जिलान्तर्गते सामुदायिकभवनम्, अमृत् सरोवर 2.0, आङ्गनवाडी भवनानि, अन्यानि च मौलिकसंरचनात्मकसुविधायुक्तानि कार्याणि प्रस्तावितानि सन्ति।तत्पश्चात् मुख्यमन्त्री डाॅ. यादवः मध्याह्ने २.१५ वादने गाडरवारा-हैलीपेडात् शहडोलजनपदं प्रति प्रस्थित्य गमिष्यन्ति।उत्कृष्टकार्यकर्तॄणां, समाजसेवकानां, गुरूणां, विद्यार्थिनां च सम्माननम् ।मुख्यमन्त्री डाॅ. मोहन यादवः नरसिंहपुरजनपदे उत्कृष्टकार्यं कुर्वन्तः नागरिकाः, जनप्रतिनिधयः, महिला-स्वसहायतासमूहाः, शिक्षकगणः, विभागीयकर्मचारिणः, मेधावी विद्यार्थी च—एतेषां सम्मानं करिष्यन्ति।
हिन्दुस्थान समाचार