ढाबा संचालकात् चरसमादकम् अधिलब्धं, गृहीतः
शिमला, 09 जूनमासः (हि.स.)। शिमलाजनपदस्य ननखटी-उपमण्डले पुलिसबलस्य गश्तीकार्यक्रमस्य समये कस्मिंश्चित् ढाबा-संचालकस्य समीपे चरस नाम मादकद्रव्यं प्राप्तम्। आरोपितः पुलिसकर्मिभिः गृहीतः, तस्य विरुद्धं एनडीपीएस् अधिनियमस्य अन्तर्गतं अपराधम् आरोपितम् अस्
Crime


शिमला, 09 जूनमासः (हि.स.)।

शिमलाजनपदस्य ननखटी-उपमण्डले पुलिसबलस्य गश्तीकार्यक्रमस्य समये कस्मिंश्चित् ढाबा-संचालकस्य समीपे चरस नाम मादकद्रव्यं प्राप्तम्। आरोपितः पुलिसकर्मिभिः गृहीतः, तस्य विरुद्धं एनडीपीएस् अधिनियमस्य अन्तर्गतं अपराधम् आरोपितम् अस्ति।

वृत्तानुसारम्— रविवासरे सायंकाले, ननखटी-थानस्य पुलिस-दलः ननखटी-चौक-प्रदेशे नियमितं गश्तिं कुर्वन् आसीत्। तस्मिन् काले गोपनीय-सूचना प्राप्ता यत् ननखटी-प्रदेशे बड़ोग-ग्रामनिवासी बाबूरामः (पुत्रः जियालालः) स्वस्य ढाबे मध्ये चरस-नाम्नः मादकपदार्थस्य अवैध-विक्रयं करोति।इत्यस्मिन् सूचनायाः आधारम् उपगम्य, पुलिसेण तत्क्षणं बाबूरामस्य ढाबे उपरि छापा दत्तम्।

तत्र तलाशी-समये १५८.९० ग्राम-परिमाणम् यावत् चरस् अपि प्राप्तम्। ततः अनन्तरं आरोपितः गिरफ्तारः कृतः।

पुलिस-अधिकारीकः सोमवासरे उक्तवान् यत् लब्धं चरसमादकं पुलिसकर्मिभिः अधिगृह्य, एनडीपीएस् अधिनियमस्य धारा २० अनुसारं प्रकरणं प्रवर्तितम् अस्ति। एवं च, आगामिन्याः विधिकायाः क्रियायाः प्रक्रिया अपि प्रवृत्ता अस्ति।

पुलिसदलम् अपि परीक्षां करोति यत्—आरोपितः एतां चरस् कुत्रतः आनयति ? किमस्य पृष्ठे कोऽपि दीर्घं अपराधजालं वा तस्करी-जालं कार्यं करोति वा?इत्येतानि अपि परीक्षणाधीनानि सन्ति।

---------------

हिन्दुस्थान समाचार