मुख्यमंत्री डाॅ यादवो जनजातीय गौरव भगवान बिरसा मुंडा  बलिदान दिवसे नतः
भाेपालम्, 9 जूनमासः (हि.स.)। मुख्यमन्त्री डॉ. मोहन यादवेन भगवान् बिरसा मुंडा बलिदानदिने समर्य्य स्मरणम् कृतम्।प्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः सोमवासरे जनजातीयसंस्कृतेः रक्षणाय संघर्षं कुर्वतः जनजातीयगौरवस्य भगवान् बिरसा मुंडा महोदयस्य बलिदानदि
मुख्यमंत्री डाॅ यादव ने बिरसा मुंडा काे बलिदान दिवस पर किया नमन


भाेपालम्, 9 जूनमासः (हि.स.)।

मुख्यमन्त्री डॉ. मोहन यादवेन भगवान् बिरसा मुंडा बलिदानदिने समर्य्य स्मरणम् कृतम्।प्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः सोमवासरे जनजातीयसंस्कृतेः रक्षणाय संघर्षं कुर्वतः जनजातीयगौरवस्य भगवान् बिरसा मुंडा महोदयस्य बलिदानदिने तं श्रद्धया स्मृत्वा ससम्मानं नतिं च कृतवान्।

मुख्यमन्त्रिणा डॉ. यादवेन स्वस्य एक्स् (X) नाम्नि सामाजिकमाध्यमे लेखं प्रकाशितं कृतम्—

जनजातीयगौरवः, जननायकः, स्वतंत्रतासेनानी च भगवान् बिरसा मुंडा इत्यस्य बलिदानदिने तस्य चरणयोः कोटिकोटि प्रणामाः। मातृभूमेः सम्मानस्य जनजातीयसमुदायस्य च स्वाभिमानस्य रक्षणार्थं भवतः अदम्यं साहसम् अप्रतिमं शौर्यं च यावत्कालं प्रेरणास्रोतः भविष्यति। भवन्तं केवलं जनजातीयसमुदायस्य न, अपि तु राष्ट्रस्य अपि गौरवमस्ति। राष्ट्रं सर्वदा भवतः कृतज्ञं भविष्यति।

---------------

हिन्दुस्थान समाचार