Enter your Email Address to subscribe to our newsletters
-वैज्ञानिकदलानि अददुः कृषकेभ्यः तकनीकीसूचना।
देहरादूनम्, 9 जूनमासः (हि.स.)।विकसितकृषिसंकल्पअभियानम्–२०२५ इत्यस्य अन्तर्गतं भारतीयकृषिअनुसन्धानपरिषद्संस्थायाः अधीनस्थः भारतीयमृत्तिकाजलसंरक्षणसंस्थानस्य (देहरादून) वैज्ञानिकवृन्दैः अभियानस्य द्वादशमे दिने सोमवासरे विकासनगर, कालसी, सहसपुर, बहादराबाद इत्येषां क्षेत्राणां एकोनविंशतिः ग्रामेषु भ्रमणं कृतम्।
एतेषु स्थलेषु वैज्ञानिकैः कृषकान् अन्यांश्च हितशेषान् प्रति खरीफऋतौ योग्यं कृषिप्रबन्धनम्, जल-नमी-संरक्षणम्, मृत्तिकास्वास्थ्यस्य सुधारः, भूमिक्षरणनिरोधनं च सम्बन्धिन्यः वैज्ञानिकविधयः प्रत्यक्षतः प्रदत्ताः। एतत् अभियानं क्षेत्रविशेषस्य आवश्यकतानुसारं वैज्ञानिक-स्थानिककृषिपरामर्शवितरणे केन्द्रीकृतः आसीत्।
वैज्ञानिकवृन्दैः क्षेत्रेषु गत्वा कृषिभूमीनाम् निरीक्षणं कृतम्, कृषकैः सह संवादः च सम्पन्नः। संवादे ते समस्याः अपि चिन्हितवन्तः —वन्यजन्तुभिः जनिता फसलहानिः,सींचनसंरचनानां अभावः,गुणवत्तायुक्तबीजानां-उर्वरकानां च अनुपलब्धता,तृणानां (खरपतवार) अधिकता,कीट-रोगप्रकोपः,विपणनसमस्या इत्यादयः।
एतानि समाधानानि अपि वैज्ञानिकैः निर्दिष्टानि —
जलसंचयविधयः, जीवनरक्षकसींचनप्रणाल्यः, नमीसंरक्षणविधयः, मृत्तिकापरीक्षणम्, मृत्तिकासुधारोपायाः च।
तेन स्थानीयजलवायुपरिस्थितिः, मृत्तिकायाः वहनक्षमता, उपलब्धसंसाधनानि च दृष्ट्वा यथोचितानां कृषिवस्तूनां (फसलानां) चयनाय विशेषबलं दत्तम्। एषा योजना कृषकाणां आयवृद्धये च सततकृषेः दिशायां एकं महत्त्वपूर्णं पद्धतिपरि
वर्तनात्मकं च चरणं दृश्यते।
------
हिन्दुस्थान समाचार