Tuesday, 8 July, 2025
पूर्णाहुत्या भंडाराभोजेन सह सम्पन्नः श्रीराम जानकी मंदिरस्य प्राण प्रतिष्ठा महोत्सवः
बाराबंकी, 9 जूनमासः (हि.स.)। जीवल ग्रामे स्थिते श्रीरामजानकीमन्दिरे आयोजितः पंचकुण्डीयमहायज्ञः, श्रीरामकथा च प्राणप्रतिष्ठामहोत्सवश्च सोमवासरे पूर्णाहुत्या समापनं प्राप्तवान्। समापनदिने मन्त्रोच्चारणेन, वैदिकविधिभिः, भक्तानां श्रद्धया च निर्मितं भक
फोटो


बाराबंकी, 9 जूनमासः (हि.स.)।

जीवल ग्रामे स्थिते श्रीरामजानकीमन्दिरे आयोजितः पंचकुण्डीयमहायज्ञः, श्रीरामकथा च प्राणप्रतिष्ठामहोत्सवश्च सोमवासरे पूर्णाहुत्या समापनं प्राप्तवान्।

समापनदिने मन्त्रोच्चारणेन, वैदिकविधिभिः, भक्तानां श्रद्धया च निर्मितं भक्तिपूरितं वातावरणं सर्वान् भावविभोरं कृतवन्। कार्यक्रमस्य शुभारम्भः अयोध्याधामात् आगतेन आचार्येण कौशलकिशोरमहाभागेन वैदिकनेतृत्वेन सम्पन्नः। यज्ञस्य पूर्णाहुतौ वेदमन्त्राणाम् उच्चारणम्, शङ्खनादः, वह्नेः ज्वालानां मध्ये श्रद्धालुभिः आहुतयः समर्पिताः। सर्वे भक्ताः स्वजीवने सुखं, शान्तिं, समृद्धिं, मंगलं च प्रार्थयन्तः आहुतीः अर्पितवन्तः।

आचार्येण कौशलकिशोरेण उद्घोषितम् यत् –

यज्ञस्य पूर्णाहुतिः केवलं धार्मिकरीतिर्नास्ति, अपितु सा जीवनशुद्धेः आत्मजागरस्य च साधनं भवति।

तेन भक्तानां प्रति धर्मे, सेवायां, सत्कर्मणि च मार्गगमनं प्रति आवाहनं कृतम्।

एतेषु पावनेषु अवसरेषु उत्तरप्रदेशराज्यस्य राज्यसचिवः सतीशचन्द्रः शर्मा मुख्यातिथिरूपेण सन्निहितः। सः मन्दिरपरिसरे नवनिर्मितविग्रहाणां दर्शनं कृत्वा पूजार्चनां च निष्पाद्य आयोजकानां सराहना कृतवान्। तेन उक्तं यत् –

धार्मिककार्यक्रमाः समाजे सौहार्दं, आध्यात्मिकचेतनां, सांस्कृतिकमूल्यानां च रक्षणे माध्यमभवन्ति। श्रीरामजानकीमन्दिरे सम्पन्नं एतत् आयोजनं भाविनां पीढीनां कृते आदर्शरूपं भविष्यति। राज्यमन्त्रिणा मन्दिरविकासाय क्षेत्रीयजनकल्याणाय च सर्वतोमुखं सहयोगं दातुं प्रतिज्ञा दत्ता।

पूर्णाहुतेः अनन्तरं विशालभण्डारः आयोज्यत, यत्र क्षेत्रतः आगतानां सहस्रशः भक्ताः प्रसादं प्राप्तवन्तः। सेवाभावेन युक्ताः कार्यकर्तारः समित्याः सदस्याश्च भक्तानां तनुमनसा सेवा अकुर्वन्।

नारीणां, बालानां, वृद्धानां च दीर्घपङ्क्तयः मन्दिरपरिसरे प्रातःकालात् एव दृष्टाः। समापनसमये अपि मन्दिरपरिसरः जय श्रीराम इत्यनुनादेन निनादितः।

अनेकाः श्रद्धालवः आयोजने सफलतायाम् हर्षं व्यक्तवन्तः, एतादृशं धार्मिकं वातावरणं बहूनां वर्षाणां पश्चात् प्राप्तमिति च अवदन्।

मूर्तेः प्राणप्रतिष्ठा, श्रीरामकथा, महायज्ञः, भण्डारः च — सर्वाणि कार्यक्रमाणि अत्यन्तं सुव्यवस्थितानि भावनात्मकसम्बद्धानि च आसन्।

आयोजकेषु प्रमुखः शिवकुमारः शुक्लः, तस्य सहवर्तीः – वीरेन्द्रः पाण्डेय, विवेकः मिश्रः, अजयः शुक्लः, पङ्कजः मिश्रः, नन्दकिशोरः पाण्डेय, मनोजः मिश्रः, ललितः शर्मा, विनोदः मिश्रः, मोनुः मिश्रः, विजयः तिवारी, विपिनः मिश्रः, आनन्दः गुप्तः, अशोकः गुप्तः, आशुतोषः गुप्तः, ओमप्रकाशः जायसवालः, श्रीरामः गुप्तः, लवकुशः गुप्तः, अरुणकुमारसिंहः इत्येते च श्रद्धालवोऽपि उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार