महिला स्वयं सहायता समूहानां 51 सखिभ्यो दत्ता बैंकिंगसंबद्धसूचना
पौड़ी गढ़वालः, 9 जूनमासः (हि.स.)।राष्ट्रियग्रामीण-जीविकामिशनान्तर्गतं द्विदिवसीयप्रशिक्षणम् आरब्धम्।राष्ट्रियग्रामीणजीविकामिशनस्य अंतर्गतैर्महिलास्वयंसहायतासमूहैः सह सम्बद्धाः ५१ चयनिताः बैंक्सख्यः द्विदिवसीयप्रशिक्षणकार्यक्रमे सोमवासरे ईटीसी पौडीनगरे
महिला स्वयं सहायता समूहों सखियों को जानकारी देते अधिकारी


पौड़ी गढ़वालः, 9 जूनमासः (हि.स.)।राष्ट्रियग्रामीण-जीविकामिशनान्तर्गतं द्विदिवसीयप्रशिक्षणम् आरब्धम्।राष्ट्रियग्रामीणजीविकामिशनस्य अंतर्गतैर्महिलास्वयंसहायतासमूहैः सह सम्बद्धाः ५१ चयनिताः बैंक्सख्यः द्विदिवसीयप्रशिक्षणकार्यक्रमे सोमवासरे ईटीसी पौडीनगरे आरब्धाः। कार्यक्रमस्य शुभारम्भे डीआरडीए परियोजनानिदेशकः विवेककुमार उपाध्याय महोदयः अवदत् यत् – बैंक्सखीयोजना ग्राम्यमहिलानां स्वावलम्बनस्य दिशायां सशक्तं साधनम् अस्ति।

तेन उक्तं यत् — प्रशिक्षणं प्राप्य सख्यः केवलं स्वयंसहायतासमूहान् बैंकसेवाभिः न योजयिष्यन्ति, अपि तु ग्राम्यअर्थव्यवस्थां अपि सुदृढां करिष्यन्ति।

प्रशिक्षणकार्यक्रमे नैनीडाण्डा, बीरोंखाल, रिखणीखाल, थलीसैंण इत्येतेषां विकासखण्डानां चयनिताः बैंकसख्यः भागं ग्रहीतवन्त्यः।

प्रशिक्षणे राष्ट्रीयग्रामीणविकाससंस्थानस्य (हैदराबाद) विशेषज्ञः गगननामकः बैंकसख्येभ्यः बैंककार्यपद्धतिः, स्वयंसहायतासमूहानां ऋणसंयोगः, ऋणप्रक्रिया, वित्तीयसमावेशनम्, ग्राहकसेवा च इत्येतानि विषया विस्तरेण उपदिष्टवान्।

प्रशिक्षणकालस्य समये प्रतिभागिन्यः विविधाः बैंककार्यविधयः व्यावहारिकरूपेण अपि अन्वभवन् तथा च तैः सम्बन्धिनः प्रश्नानां समाधानम् अपि प्राप्तम्।

अस्मिन् अवसरे वित्तसमन्वायकः धनञ्जयप्रसादः, ईटीसी प्रशिक्षणप्रभारी जितेन्द्र रौंतेलाः, कार्यक्रमसमन्वायकः दिनेशरावतः इत्यादयः अपि उप

स्थिताः आसन्।

हिन्दुस्थान समाचार