Enter your Email Address to subscribe to our newsletters
लातेहारः, 9 जूनमासः (हि.स.)। सोमवासरे प्रातः ३ वादने लातेहारजनपदस्य मणिकाखण्डमुख्यालयस्य वनविभागस्य चेकपोस्टस्य समीपे विवाहपक्षस्य लोकयानस्य भारवाहकस्य च अभिमुखी अपघट्टनम् अभवत्। अस्मिन् दुर्घटने प्रायः १० विवाहातिथयः घातिताः अभवन् । घायलेषु रविन्द्र ओरावन, मनती देवी, अनिकेत-ओरावनः, मणितादेवी, सुचिताकुमारी, परमेश्वरओरांवः, सरस्वती कुमारी आदयः सम्मिल्लिताः। सर्वे लातेहारजनपदस्य सरयू-नगरस्य निवासिनः सन्ति ।
सूचनानुसारं सर्वे जनाः मनिकाखण्डस्य बरवैया ग्रामे विवाहसमारोहे भागं ग्रहीतुं आगताः आसन्। विवाहसमाप्तेः अनन्तरं सर्वे जनाः लोकयाने आरुह्य स्वगृहं प्रति गच्छन्ति स्म । इत्थं च एनएच ३९ इत्यत्र वनविभागस्य परीक्षणकेन्द्रस्य समीपे अग्रे आगच्छन्त्याः भारवाहकेन सह लोकयानं शिरसा अपघटितम्।दुर्घटनायाः सूचनां प्राप्य पुलिसदलः तत्स्थानं प्राप्य सर्वान् आहतान् चिकित्सीयवाहनेन चिकित्सालयं नीतवान्। यत्र प्राथमिकचिकित्सायाः अनन्तरं पञ्च जनाः उत्तमचिकित्सायाः कृते लतेहरं प्रेषिताः। अत्र वैद्याः सर्वेषां चिकित्सां कृतवन्तः । वैद्यानां मते सर्वेषां क्षतिग्रस्तानां स्थितिः संकटात् बहिः अस्ति। थानाप्रभारी शशिकुमारः अवदत् यत् दुर्घटनायाः अनन्तरं द्वयोः वाहनयोः आरक्षकेण अधिगृहीताः सन्ति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA