Enter your Email Address to subscribe to our newsletters
जयपुरम्, 01 जुलाई मासः(हि.स.)। राजधानी जयपुरनगरे मंगलवासरे सत्रन्यायालयस्य विस्फोटनार्थं भायोद्यमःकृतः ईमेलः प्राप्तः तदा सम्भ्रमः अभवत्। सूचनानुसारं न्यायालयस्य आधिकारिक-अणुसङ्केतसन्देशः भयोद्यमः प्रेषितः । अणुसङ्केतसन्देशविषये सूचना प्राप्तमात्रेण न्यायालयप्रशासनेन तत्क्षणमेव आरक्षकाय, जनपदप्रशासनाय च सूचितम्।
विस्फोटनिष्कासनदलस्य, श्वापददलस्य इत्यादीनां सुरक्षासंस्थानां दलाः तत्स्थानं प्राप्तवन्तः, न्यायालयस्य परिसरं तत्क्षणमेव निष्कास्य अन्वेषणकार्यक्रमः आरब्धः। सम्पूर्णं भवनम् अन्वेष्य शङ्कितं वस्तु न प्राप्तम् । परिसरस्य विभिन्नेषु भागेषु सुरक्षासंस्थाः सम्यक् अन्वेषणं कृतवन्तः। अन्वेषणकार्यक्रमस्य समाप्तेः अनन्तरं न्यायालयस्य भवनं शङ्कितं वस्तु न प्राप्य सुरक्षितं घोषितम्। तदनन्तरं पुनः कार्यम् आरब्धम् । अपरं तु साइबरशाखा अणुसङ्केतसन्देशस्य स्रोतसः अन्वेषणं कुर्वती अस्ति।
बणिउद्योगः आरक्षकस्थानकस्य अधिकारी बृजमोहनकविया इत्यनेन उक्तं यत् एषः अणुसङ्केतसन्देशः मंगलवासरे अपराह्णे प्राप्तः। सूचना प्राप्तमात्रेण आरक्षकनियन्त्रणकक्षं वरिष्ठाधिकारिणः च सूचिताः। पश्चात् सम्पूर्णं परिसरं शीघ्रमेव निष्कास्य अन्वेषणकार्यक्रमः कृतः । बम्बदलस्य, श्वापददलस्य च साहाय्येन न्यायालयस्य परिसरे गहनम् अन्वेषणकार्यक्रमं कृतम् । एतदतिरिक्तं तत्रैव नागरिकरक्षादलम् अपि नियोजितम् आसीत् । श्वापददलः बम्बदलः च न्यायालयस्य परिसरं निष्कास्य तस्य प्रत्येकं इञ्चम् अन्वेषितवन्तौ । अन्वेषणे शङ्कितं वस्तु न प्राप्यते तदा आरक्षक-प्रशासनयोः निःश्वासः अभवत् । अणुसङ्केतसन्देशस्य विषये साइबर-दलानि कार्यं कुर्वन्ति ।
ज्ञातव्यं यत् मई-मासस्य 30 दिनाङ्के जयपुरे परिवारन्यायालयस्य, जन पदन्यायालयस्य च विस्फोटस्य भयोद्यमः आसीत् । ततः पूर्वं राजधानी जयपुरे अपि सर्वकारीयविभागानाम् बम्बैः विस्फोटयितुं भयोद्यमप्रकरणाः प्रमुखाः आसन्। एसएमएस-क्रीडाङ्गणस्य विस्फोटनस्य भयोद्यमः अनेकवारं प्राप्तः अस्ति । मेट्रोस्थानकं विस्फोटपदार्थेन विस्फोटयिष्यामि इति भयोद्यमः दत्ताः मेलपत्राणि आसन् । पश्चात् यदा अन्वेषणं कृतम् तदा तत् मिथ्यावादः एव अभवत् ।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA