Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 10 जुलाईमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्तविश्वसर्मा गुरुपूर्णिमायाः शुभ अवसरे सर्वेषां गुरुजनानाम् आदरं कृतज्ञतां च प्रकटितवान्। भारतीयसनातनसंस्कृतौ गुरोः महत्त्वं रेखांकयन् सः अवदत् यत् जीवननिर्माणस्य प्रत्येकस्मिन् क्षेत्रे गुरोः भूमिका अमूल्यम् अस्ति। मुख्यमन्त्री अवदत् यत्, अद्य गुरुपूर्णिमा-पवित्रदिने जीवने मम मार्गदर्शनं कृतवन्तः प्रत्येकं गुरुं हृदयात् कृतज्ञतां च अर्पयामि। भवतां सर्वेषाम् आशीर्वादः मम जीवनस्य साहसं प्रेरणा च अस्ति। डॉ. सरमा इत्यस्य एषः सन्देशः सम्पूर्णे राज्ये जनानां प्रशंसाम् अकरोत्, यः गुरु-शिष्यपरम्परायाः गौरवपूर्णविरासतां रक्षणाय प्रेरयति।
हिन्दुस्थान समाचार / ANSHU GUPTA