Enter your Email Address to subscribe to our newsletters
कोलकाता, १० जुलाईमासः (हि.स.) पश्चिमबङ्गराज्यस्य मुख्यमंत्री ममता बनर्जी राँचीमध्ये गृहमन्त्री अमितशाहस्य अध्यक्षतायाम् गुरुवासरे आयोज्यमानायाम् पूर्वांचल-आञ्चलिकपरिषद्-सभायाम् उपस्थितं न भविष्यति।
कोलकातास्थस्य कस्यचित् मन्त्रिणः वचनानुसारम् — मुख्यमंत्रिणः पूर्वनिश्चितं कार्यक्रमं सन् अस्ति, अतः सा उक्तायां सभायां भागं गृहीतुं न शक्नोति।
तस्याः स्थाने पश्चिमबङ्गस्य वित्त-राज्यमन्त्री (स्वतन्त्रप्रभारेण) चंद्रिमा भट्टाचार्य प्रतिनिधित्वं करिष्यति।
पूर्वांचल-आञ्चलिकपरिषदि चत्वारः राज्याः सम्मिल्यन्ते — पश्चिमबङ्गः, बिहारः, झारखंडः, ओडिशा च। एषा परिषद् देशस्य षष्ठसु क्षेत्रीयपरिषत्सु एकः अस्ति, यत्र पारस्परिक-सहयोगः समन्वयश्च संवर्ध्यते।
ममता बनर्जी राँचीगमनं निरस्य, सचिवालये नवान्न-नाम्नि जम्मू-काश्मीरस्य मुख्यमंत्री उमर अब्दुल्ला इत्यनेन सह पूर्वनिश्चितां वार्तां प्राधान्येन स्वीकरिष्यति। मध्याह्नकाले आयोजिते अस्मिन सम्मिलने, उभौ मुख्यमंत्रिणौ विविधेषु महत्त्वपूर्णेषु विषयेषु चर्चां करिष्यतः।
गतमासे पहलगामे जातस्य आतङ्कवादि प्रकरणस्य सन्दर्भे, ममता द्वारा तत्क्षणमेव पञ्चसदस्यीयप्रतिनिधिमण्डलं जम्मू-काश्मीरं प्रेषितम्। तस्मिन समये, प्रतिनिधिमण्डलेन उमर अब्दुल्लः सह साक्षात्कारः कृतः, तथा च सुरक्षावस्थायाः समीक्षा अपि। उक्तकार्यस्य प्रशंसा अपि उमर अब्दुल्लः कृतवान्।
हिन्दुस्थान समाचार