पतञ्जलियोगसमितेः पक्षतः गुरुपूर्णिमा समारोहम् आयोज्यते स्म।
अररिया १० जुलाई (हि.स.)।गुरुपूर्णिमानिमित्तं पतञ्जलियोगसमित्याः पक्षे फारबिस्गञ्जद्विजदेनीस्मारक-उच्चविद्यालय-प्रांगणे गुरुवासरे नियमितयोगशिक्षायाः अन्तर्गते गुरुपूर्णिमा उल्लासेन आचरिता।नियमितयोगशिक्षायां सहभागीजनाः स्व-स्व चिन्तनं गुरुपूर्णिमायाः प
अररिया फोटो:योग गुरु रामदेव


अररिया १० जुलाई (हि.स.)।गुरुपूर्णिमानिमित्तं पतञ्जलियोगसमित्याः पक्षे फारबिस्गञ्जद्विजदेनीस्मारक-उच्चविद्यालय-प्रांगणे गुरुवासरे नियमितयोगशिक्षायाः अन्तर्गते गुरुपूर्णिमा उल्लासेन आचरिता।नियमितयोगशिक्षायां सहभागीजनाः स्व-स्व चिन्तनं गुरुपूर्णिमायाः प्रसङ्गे अव्याहरन्। वरिष्ठयोगी सुरेन्द्रमण्डलः अत्यन्तं विशिष्टेन शैलीना कार्यक्रमस्य संचालनं कृतवान्, स च गुरोः महत्त्वं सुन्दररूपेण प्रकाशयामास। अस्मिन् कार्यक्रमे सर्वे योगिनः योगिन्यश्च पूर्णतया सहयोगं प्रदत्तवन्तः।गुरुपूर्णिमासमारोहे योगी योगेन्द्रजी, काशीबाबु, शङ्कररामदासः, बिपिनझा, शम्भुकुमारः, अध्यापकयोग: - नामितावर्मा, अम्बिकाभगिनी, शिखाभगिनी, च समाजसेविका लक्ष्मीसा इत्येते विशेषं सहयोगं कृतवन्तः।सर्वे सहभागीजनाः योगगुरोः रामदेवमहाभागस्य छायाचित्रेण सह विश्वे योगविस्ताराय तेन प्रदत्तस्य महद्भागस्य प्रशंसाम् अकुर्वन्।

हिन्दुस्थान समाचार / ANSHU GUPTA