मुख्यमन्त्रीविष्णुदेवसायस्य अध्यक्षतायाम् अद्य मन्त्रिपरिषद: महत्वपूर्णसभा।
रायपुरम्, ११ जुलाईमासः (हि.स.)। छत्तीसगढराज्यस्य मुख्यमन्त्री विष्णुदेवसायस्य अध्यक्षतां कृत्वा अद्य शुक्रवासरे वर्षाकालीनविधानसभासत्रात् पूर्वं मन्त्रिपरिषद: महत्वपूर्णसभा भविष्यति। अस्याम् सभायां विविधविषयेषु निर्णयं स्वीकर्तुं शक्यते। वर्षासत्रे प
छत्तीसगढ़ के मुख्यमंत्री विष्णुदेव साय


रायपुरम्, ११ जुलाईमासः (हि.स.)। छत्तीसगढराज्यस्य मुख्यमन्त्री विष्णुदेवसायस्य अध्यक्षतां कृत्वा अद्य शुक्रवासरे वर्षाकालीनविधानसभासत्रात् पूर्वं मन्त्रिपरिषद: महत्वपूर्णसभा भविष्यति। अस्याम् सभायां विविधविषयेषु निर्णयं स्वीकर्तुं शक्यते। वर्षासत्रे प्रस्तुतव्यमानविधेयकेभ्यः सम्बन्धिनी चर्चा अपि सम्भाव्यते। एषा सभा महानदी-भवनमन्त्रालये अपराह्णे आरभ्यते।

मुख्यमन्त्रिणः विष्णुदेवसायस्य कार्यक्रमानुसारं सः अद्य प्रातः ११:२५ वादनस्य समये मंत्रालयं महानदीभवनं गमिष्यति। अपराह्णे द्विवादनपर्यन्तं मन्त्रिपरिषद्-सभायाः अध्यक्षतां करिष्यति। सभानन्तरं अपराह्णे त्रिवादनात् सायं ६:४५ वादनपर्यन्तं सः मुख्यमन्त्रिणः कार्यालयकार्येषु व्यस्तः भविष्यति। सायं ६:४५ वादनस्य समये सः मंत्रालयात् निष्क्रान्त्वा ७:०० वादनस्य समये मेफेयरविश्रामगृहं गमिष्यति, यत्र सः निजीदूरदर्शस्रोतस्य ‘राइजिंग् छत्तीसगढ्’ नामककार्यक्रमे भागं गृह्णीयात्। कार्यक्रमानन्तरं रात्रौ ८:३० वादनस्य समये मुख्यमन्त्रीनिवासं प्राप्स्यति।

हिन्दुस्थान समाचार / ANSHU GUPTA