उज्जयिन्यां श्रावणमासस्य आरम्भः, नगरं शिवमयं जातम्। महाकाल-दर्शनार्थं लक्षशः श्रद्धालवः आगमिष्यन्ति, अद्य निष्क्रान्तिः महाकालस्य सवारी।
उज्जयिनी, ११ जुलाईमासः (हि.स.)। उज्जयिन्यां श्रावणमासस्य शुभारम्भः अद्य शुक्रवासरे जातः। भस्मारत्या: अनन्तरं श्रीमहाकालस्य दर्शनं प्रारब्धम्। नगरे सर्वत्र बोल बम इति घोषेण वातावरणं शिवमयं जातम्। महाकाल-मन्दिरे दर्शनाय लक्षशः श्रद्धालवः समागता:। आगाम
शुक्रवार तड़के भस्मारती पश्चात बाबा महाकाल का श्रृंगार


उज्जयिनी, ११ जुलाईमासः (हि.स.)। उज्जयिन्यां श्रावणमासस्य शुभारम्भः अद्य शुक्रवासरे जातः। भस्मारत्या: अनन्तरं श्रीमहाकालस्य दर्शनं प्रारब्धम्। नगरे सर्वत्र बोल बम इति घोषेण वातावरणं शिवमयं जातम्। महाकाल-मन्दिरे दर्शनाय लक्षशः श्रद्धालवः समागता:।

आगामि सोमवारे श्रावणमासस्य प्रथममहाकाल-सवारी निष्क्रान्ता भविष्यति। रविवासरे श्रावणमहोत्सवस्य मुख्यप्रस्तुतयः सम्पन्नाः भविष्यन्ति। नगरस्थेषु शिवमन्दिरेषु रंगरोगनं कृत्वा शोभनया सज्जया अलङ्करणं कृतम्।

यातायात्-व्यवस्थायाः विनियोजनम्।

श्रावणमासे श्रद्धालूनां सुविधायै आरक्षक -विभागेन विशेषः यातायात-व्यवस्था-विनियोजनं कृतम्। केषुचित् मार्गेषु वाहनानां प्रवेशः निषिद्धः कृतः, च यथोचितं वाहनस्थापन-स्थलानि अपि निर्धारितानि।

चत्वारिचक्रिक-वाहनानां कृते वाहनस्थापन-स्थलानि—

केंद्रे, चारधाम-मन्दिरस्य पुरतः, नरसिंह-घाट-पार्किङ्, मन्नत्-गार्डन्, इम्पीरियल्-होटल् समीपम्, हरिफाटक-ओव्हरब्रिज् अधः, च कार्तिक-मेला-उद्यानम्।

द्विचक्रिक-वाहनानां कृते—

हरसिद्धि-पाल, क्षीरसागर-उद्यानम्, टंकी-चौराहा मल्टिलॅवेल्-पार्किङ् च।

कालभैरव-मन्दिरं प्रति मार्गाः।

महाकाल-दर्शनानन्तरं श्रद्धालूनां कालभैरव-मन्दिरं प्रति गमनाय आरक्षक-विभागेन वैकल्पिक-मार्गाः निर्दिष्टाः, प्रमुखौ—

1. हरिफाटक-चौराहात् जीवाजी-वेधशाला, लालपुल, रंजीत-हनुमानं गत्वा कालभैरव-मन्दिरम्।

2. कर्कराज-पार्किङ् तः नरसिंह-घाटः, शङ्कराचार्य-चौराहा, कालिदास-उद्यानम्, मोजमखेड़ी इत्येतानि गत्वा कालभैरव-मन्दिरम्।

3. समीप-नगरात् आगच्छन्तः श्रद्धालवः इञ्जिनीयरिंग्-कालिज-तिराहात् पाइप्-फॅक्टरी, विक्रमनगर्-स्थानकं, मण्डी-चौराहा, जेल्-तिराहं च यावत् कालभैरव-मन्दिरं गमिष्यन्ति।

महाकाल-सवारीमार्गे व्यवस्था

प्रत्येकं सोमवासरं सायं ४ वादनात् श्रीमहाकालस्य सवारी रामघाटं गत्वा मन्दिरं प्रत्यागच्छति। सवारीमार्गे वाहनस्थापनं निषिद्धम्। नियमभङ्गे आरक्षक-दण्डश्च क्रेनयान-द्वारा वाहनापहरणं करिष्यति।

प्रतिबन्धित-मार्गाः—

देवास-गेट् तः दौलतगञ्ज्, इन्दौर्-गेट् तः महाकाल-घाटी, बेगमबाग् तः कोट-मोहल्ला, हरसिद्धिपाल् तः गुदरी, दानीगेट् तः ढाबा-रोड्, जूना-सोमवारिया तः कालियादेह-द्वारम्।

अवकाशानां निरसनम्।

श्रावण-भाद्रपदमासयोः सवारीसम्बद्ध-व्यवस्थायै जनपदाधिकरी-रोशनकुमारसिंहेन समस्त- जनपदाधिकारीणाम् अधीनस्थाधिकारिणां च ११ जुलाईतः २० अगस्तपर्यन्तं अवकाशः निरस्तः इत्यादेशः प्रदत्तः।

शनिवासरे, रविवासरे, सोमवासरे च सर्वे अधिकारिणः मुख्यालये आवश्यकतया उपस्थिताः भविष्यन्ति। विशेषप्रकरणे पूर्वानुमतिं विना अवकाशः न दास्यते।

हिन्दुस्थान समाचार / ANSHU GUPTA