Enter your Email Address to subscribe to our newsletters
गोलाघाटम् (असमः), 11 जुलाईमासः (हि.स.)।प्रलयस्य जलप्रमाणं शनैः शनैः न्यूनीभूतं जातम्, तथापि बाढापीडितानां वेदना समस्याः च तावत् न निवृत्ताः। प्रभावितजनाः नवानि नवानि च समस्याप्रकाराणि अनुभवन्ति। धनश्रीनद्याः प्रवर्धमानं जलं सम्पूर्णं प्रदेशं विनाशयामास। जलप्रमाणे न्यूनीभूते सति अपि गृहाणां स्थितौ किञ्चन सुधारः जातः, किन्तु शेषाः समस्याः तु अद्यापि न समाप्ताः।
मार्गाः, गृहाणि च ये विनष्टाः, तत्र भोजनं, पेयजलम्, रोगाणां सम्भावनाश्च इत्येवं नानाविधाः कठिनताः उत्पन्नाः। यद्यपि जलं न्यूनं जातम्, तथापि जनानां दुःखं न तु न्यूनीभूतम्।
अद्यापि त्रितीयसंख्यायुक्ते कैवर्तशौतलीनामके स्थले मार्गाय एकमेव उपायः अस्ति—केलिकाण्डः। मार्गे जलस्य पूरणं अपि स्थितमेव।
स्थानीयजनाः वदन्ति यत् अतीतानि कतिपयानि दिनानि यावत् बाढायाम् अटव्यां जनानां विषये चिन्ता कर्तुं कोऽपि जनप्रतिनिधिः न आगतः। एषा जनप्रतिनिधीनाम् उपेक्षा ग्रामजनानां मनसि गम्भीरं विषादं निर्मायति। ते प्रार्थयन्ते—'कोऽपि आगत्य अस्माकं स्थितिं पश्यतु, वयं महतीषु कठिनतासु निमग्नाः स्मः।'विदितं भवतु यत् समीपस्थे नगालैंडराज्ये सम्प्राप्तया मूसलधारेण वर्षया धनश्रीनद्याः जलप्रवाहः सहसा प्रवर्धितः, येन कारणेन गोलाघाटजनपदस्य पञ्चसु राजस्वमण्डलेषु बाढा उत्पन्ना। प्रशासनं तदा सप्तत्रिंशत् सहायता-शिविराणि स्थापितवान्। यद्यपि जले शनैः शनैः अपसृते वर्तमानस्थितिः अपि शनैः सामान्यतां प्रति गच्छति।
हिन्दुस्थान समाचार