मध्यप्रदेशः - मुख्यमन्त्री अद्य १.२७ कोटि लाडलीभगिनीभ्यः १५०३ कोटि रूप्यकाणि वित्तकोशेषु अन्तरयिष्यन्ति
- सामाजिकसुरक्षापेन्शन् तथा उज्ज्वला-गैस-सिलिण्डर-योजनायाः धनराशिः अपि अन्तरितुं निर्धारितम् भोपालम्, 12 जुलाईमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डा. मोहनयादवः अद्य (शनिवासरे) उज्जयिन्याः कालिदास-अकादमी-स्थले आयोजिते विशेषकार्यक्रमे मुख्यमन्त्री
सीएम मोहन यादव (फोइल फोटो)


- सामाजिकसुरक्षापेन्शन् तथा उज्ज्वला-गैस-सिलिण्डर-योजनायाः धनराशिः अपि अन्तरितुं निर्धारितम्

भोपालम्, 12 जुलाईमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डा. मोहनयादवः अद्य (शनिवासरे) उज्जयिन्याः कालिदास-अकादमी-स्थले आयोजिते विशेषकार्यक्रमे मुख्यमन्त्री लाडली बहना योजना, सामाजिक सुरक्षा पेंशन, तथा उज्ज्वला-गैस-सिलिण्डर-योजनायाः लाभार्थिनां वित्तकोशेषु जुलाईमासस्य धनराशिं एकक्लिकेन अन्तरयिष्यन्ति।

लाडली बहना योजनान्तर्गतं षड्विंशतितमं किश्त-रूपेण एकं कोटिः सप्तविंशतिलक्षं बहनानां खातेषु १५०३ कोटि १४ लक्ष रूप्यकाणि सम्प्रेष्यन्ते।

जनसम्पर्काधिकारिण्या बिन्दु सुनील इत्याख्यया सूचितम् यत्,

मुख्यमन्त्रिणा ५६ लक्ष ७४ सहस्र सामाजिकसुरक्षा-पेंशन-लाभार्थिनां खातेषु ३४० कोटि रूप्यकाणां च,

तथा ३० लक्षाधिकानां बहनानां उज्ज्वला योजनान्तर्गतं गैस-सिलिण्डर-रिफिलिंगाय ४६ कोटि ३४ लक्ष रूप्यकाणि अपि एकक्लिकेन अन्तरयिष्यन्ति।

मुख्यमन्त्री डॉ. यादवः उज्जयिन्यां राज्यस्तरीये निषादराज-सम्मेलने अपि भागं गृह्णीष्यन्ति, यत्र ते मछुआ-कल्याण-विकासकार्याणां भूमिपूजनं तथा हितलाभवितरणं करिष्यन्ति।

एतेषु कार्यक्रमेषु मछुआ-कल्याणाय १५२ कोट्यधिकस्य धनराशेः विकासकार्याणि भूमिपूजनेन आरभ्यन्ते।

हिन्दुस्थान समाचार